Enter your Email Address to subscribe to our newsletters

कोलकाता, 04 मार्चमासः (हि. स.)। पश्चिमबङ्गालराज्यस्य मुख्यमन्त्री ममता बनर्जी होलीपर्वणः अवसरे जनान् प्रति हिन्दी तथा आङ्ग्लभाषयोः शुभाशंसाः प्रेषितवती। स्वसन्देशे सा अवदत् यत् रङ्गाणां एषः पावनः उत्सवः प्रत्येकं गृहम् आनन्देन उल्लासेन च पूरयतु तथा समाजे प्रेम्णः सौहार्दस्य च दृढीकरणं करोतु।
मुख्यमन्त्री स्वसन्देशे समाजस्य सर्वेषां वर्गाणां जनान् परस्परभ्रातृत्वस्य पालनाय आह्वानं कृतवती। सा अवदत् यत् होली केवलं रङ्गाणां उत्सवः न, अपितु एकतायाः सद्भावस्य च प्रतीकः अस्ति, यः समाजं संयोजयति।
ममता बनर्जी कामनाम् अकरोत् यत् एतत् पर्व सर्वेषां जीवने सुखं शान्तिं समृद्धिं च आनयतु तथा राज्ये परस्परसौहार्दस्य भ्रातृत्वस्य च वातावरणं अधिकं सुदृढं भवतु।
हिन्दुस्थान समाचार