लोक–भवने हर्षोल्लासेन होली–उत्सवः समायोजितः
देहरादूननगरम्, ०४ मार्चमासः (हि.स.)। राजधानी-देहरादून-स्थिते लोक–भवने बुधवासरे होली–मिलन–कार्यक्रमः हर्षोल्लासेन समायोजितः। अस्मिन् कार्यक्रमे राज्यपालः गुरमीतसिंह: (से.नि.) तथा मुख्यमन्त्री पुष्करसिंह-धामी सहभागिनौ अभवताम्। उभाभ्यां प्रदेशवासिभ्यः
देहरादून स्थित लोक भवन में आयोजित होली मिलन कार्यक्रम के दौरान गुरमीत सिंह और मुख्यमंत्री पुष्कर  सिंह धामी।


देहरादूननगरम्, ०४ मार्चमासः (हि.स.)। राजधानी-देहरादून-स्थिते लोक–भवने बुधवासरे होली–मिलन–कार्यक्रमः हर्षोल्लासेन समायोजितः। अस्मिन् कार्यक्रमे राज्यपालः गुरमीतसिंह: (से.नि.) तथा मुख्यमन्त्री पुष्करसिंह-धामी सहभागिनौ अभवताम्। उभाभ्यां प्रदेशवासिभ्यः होली–पर्वणः हार्दिकाः शुभाशयाः प्रदत्ताः।

अस्मिन् अवसरे पूर्व–मुख्यमन्त्री रमेशपोखरियाल: ‘निशंक:’, मन्त्रिमण्डलस्य मन्त्री धनसिंहरावत; तथा गणेश: जोशी इत्यादयः अनेके जनप्रतिनिधयः, वरिष्ठ–अधिकारिणः, समाजसेवकाः तथा विविध–सामाजिक–संस्थाभ्यः सम्बद्धाः जनाः उपस्थिताः आसन्। सर्वे राज्यपालं मुख्यमन्त्रिणं च समागत्य होली–शुभाशया: अर्पितवन्तः, परस्परं च वर्ण–गुलाल–लेपनपूर्वकं पर्वण: आनन्दं अनुभूतवन्तः।

राज्यपालः गुरमीतसिंहः स्वसन्देशे अवदत् यत्— होलिका हर्ष–उल्लास–समरसतायाः प्रतीकात्मक: उत्सवः अस्ति, यः समाजे प्रेम–सौहार्द–एकतायाः सन्देशं प्रसारयति। नानावर्णात्मकः अयं उत्सवः पारस्परिक–सद्भावस्य सुदृढीकरणस्य साधनं भवति तथा मानवतायाः एकत्वाय प्रेरयति इति सः अवदत्।

मुख्यमन्त्री पुष्करसिंहधामी अपि अवदत् यत्— होलिका-उत्सव: अस्माकं समृद्धायाः सांस्कृतिक–परम्परायाः प्रतीकः अस्ति। अयं उत्सवः सामाजिक–एकतां भ्रातृत्वं च सुदृढीकर्तुं सुवर्णावसरं ददाति। सः कामनां कृतवान् यत् वर्णानामेतत् पर्व सर्वेषां जीवने नव–ऊर्जां सकारात्मकतां च सञ्चारयतु, तथा प्रदेशः निरन्तरं विकास–प्रगतेः मार्गे अग्रसरः भवतु।

कार्यक्रमावसरे लोक–भवन–परिसरे उत्साहपूर्णं वातावरणं विद्यमानम् आसीत्, पारम्परिक–रीत्या च होली–उत्सवः सम्यक् आचरितः।

हिन्दुस्थान समाचार / Dheeraj Maithani