Enter your Email Address to subscribe to our newsletters

जयपुरम्, 04 मार्चमासः (हि.स.)।
मुख्यमंत्री भजनलाल शर्मा बुधवासरे आमजनैः सह होली पर्व हर्षोल्लासेन आचरितवान्। मुख्यमंत्री निवासे आयोजिते होली महोत्सवे प्रदेशस्य विविधेभ्यः भागेभ्यः सहस्रशः आगताः जनाः पुष्पैः प्राकृतिकरंगैः च सह एतत् उत्सवं आचरितवन्तः। शर्मा सपत्नीकः आमजनान् गुलालं लेपयित्वा पुष्पवर्षां कृत्वा च पूर्णया आत्मीयतया सर्वेषां अभिनन्दनं कृतवान्।
होलीपर्वणः पावनसन्दर्भे प्रदेशस्य विविधा संस्कृतिः एकस्मिन् स्थले दृष्टा, यदा ब्रजप्रदेशात् आरभ्य शेखावाटी क्षेत्रपर्यन्तं होली पर्वणः विविधरूपाणि प्रदर्शितानि। ब्रजप्रदेशात् आगताः भारतीय कला संस्थानस्य कलाकाराः तथा भजनमण्डली गायननृत्याभ्यां उत्सवं रमणीयं कृतवन्तः। शेखावाटी प्रदेशस्य फतेहपुर नगरात् आगता गो वत्स फाग मण्डली चंग वाद्येन सह उत्साहपूर्णं प्रदर्शनं कृतवती। अस्मिन् अवसरे मुख्यमंत्री अपि कलाकाराणां मध्ये गत्वा फाल्गुनगीतानां गानकार्ये सहभागी अभवत्।
बालकाः वृद्धाः महिलाः युवानश्च सर्वे अपि मुख्यमंत्रीसह होली क्रीडनाय विशेषोत्साहं प्रदर्शितवन्तः। केचन मुख्यमन्त्रिणे गुलालं लेपयित्वा साफा दुपट्टं च अर्पितवन्तः, अन्ये तु स्वहस्तनिर्मितां पिचकारीं गुलालगोटां च भेंटस्वरूपेण दत्तवन्तः।
मुख्यमंत्री प्रदेशवासिभ्यः हार्दिकाः बधाईः शुभकामनाश्च प्रदाय उक्तवान् यत् रंगानाम् अस्मिन् उत्सवे सर्वे जनाः कटुतां विस्मृत्य आनन्देन सह जीवनं यापयितुं संकल्पं कुर्वन्तु।
अस्मिन् अवसरे उपमुख्यमंत्री दीया कुमारी डॉ प्रेमचन्द बैरवा राज्यसभा सांसद मदन राठौड़ मंजू शर्मा विधायक कुलदीप धनखड़ गोपाल शर्मा तथा अन्ये सांसदाः विधायकाः पूर्वसांसदाः पूर्वविधायकाः अन्ये जनप्रतिनिधयः अधिकारिणः च उपस्थिताः आसन्। जैसलमेरात् धौलपुरपर्यन्तं हनुमानगढात् बांसवाडापर्यन्तं प्रदेशस्य विभिन्नाभ्यः जिल्लाभ्यः बहुसंख्यया सामान्यजनाः अपि उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार