Enter your Email Address to subscribe to our newsletters

नाहननगरम्, ०४ मार्चमासः (हि.स.)। ऐतिहासिके नाहन–नगरे होली–महोत्सवः महता हर्षोल्लासेन सम्यक् आचर्यते। नगरे युवान: समूहान् निर्माय स्थाने स्थाने विचरन्तः होली–उत्सवं आचरन्ति, तथा च नगरस्य जनाः अपि उत्साहपूर्वकं गुलालं क्षिपन्तः दृष्टाः।
अस्मिन्नेव अवसरे भारतीय-जनता-पक्ष–प्रदेशाध्यक्षः डॉ.राजीवबिंदल: तथा सांसदः सुरेशकश्यप: अपि नाहन–नगरे जनैः सह रानी-झांसी-पार्क–इत्यत्र होली–उत्सवं आचरितवन्तौ। होलिका–पर्वणि नगरे स्थाने स्थाने जनाः डीजे–वाद्य–ढोल–नगाडादिनां नादेषु नृत्यन्तः दृष्टाः।
पत्रकारै: सह संवादे राजीवबिंदल: उक्तवान् यत् होलिका–महोत्सवः द्वेषस्य विस्मरणं कृत्वा परस्पर–भ्रातृत्वस्य प्रतीकः अस्ति। सः अस्मिन्नेव दिने प्रदेशवासिनः सर्वान् हार्दिक–शुभाशयैः अभिनन्दितवान्। रंगाणां एषः उत्सवः सर्वैः मिलित्वा आचर्यते इति सः अवदत्। राजनैतिक–द्वेषं मतभेदांश्च अतिक्रम्य सर्वैः अस्य रंग–उत्सवस्य आचरणं कर्तव्यमिति तेन प्रतिपादितम्। होलिका–पर्वणा उत्सवानां प्रारम्भः भवति, अग्रिमेषु दिनेषु नवरात्रि–पर्वणि अन्ये च उत्सवाः अपि हर्षोल्लासेन आचर्यन्ताम्, अग्रिम–वर्षं सुख–समृद्धिं वहतु इति सः कामनाम् अकरोत्।
सांसदः सुरेशकश्यप: अपि देश–प्रदेशवासिनः सर्वान् होलिका–पर्वणः शुभाशया: दत्तवान्। सः अवदत् यत् अस्मिन् दिने सः देशस्य प्रदेशस्य च सुख–समृद्ध्यै कामनाम् करोति, येन परस्पर–भ्रातृत्वं दृढं भवेत् तथा च देश–प्रदेशयोः निरन्तरं प्रगति: स्यात्।
हिन्दुस्थान समाचार / अंशु गुप्ता