असम विधानसभानिर्वाचनम् 2026: नवगठित डिमोरिया-आसने वर्धिता राजनीतिकं विचलनम्
गुवाहाटी, 05 मार्चमासः। असमराज्ये षोडशी विधानसभा-निर्वाचनस्य २०२६ वर्षस्य समीपागमनेन सह राज्ये राजनैतिकगतिविधयः तीव्राः अभवन्। अस्मिन् वारे निर्वाचनं क्षेत्रपुनर्निर्धारणानन्तरं प्रथमवारं क्रियते, यस्य कारणात् अनेषां पुरातनानां विधानसभा-क्षेत्राणां
असम विस चुनाव 2026 कोलाज


गुवाहाटी, 05 मार्चमासः। असमराज्ये षोडशी विधानसभा-निर्वाचनस्य २०२६ वर्षस्य समीपागमनेन सह राज्ये राजनैतिकगतिविधयः तीव्राः अभवन्। अस्मिन् वारे निर्वाचनं क्षेत्रपुनर्निर्धारणानन्तरं प्रथमवारं क्रियते, यस्य कारणात् अनेषां पुरातनानां विधानसभा-क्षेत्राणां स्वरूपं परिवर्तितम्, नूतनक्षेत्राणि अपि निर्मितानि।

पुनर्निर्धारणात् पूर्वं कामरूप-मेट्रो जनपदे चत्वारि विधानसभा-क्षेत्राणि आसन्—दिसपुर, पूर्वगुवाहाटी, पश्चिमगुवाहाटी तथा जालुकबाड़ी। पुनर्निर्धारणानन्तरं एतेषां संख्या पञ्च अभवत्।

अस्य प्रक्रियायां पूर्वगुवाहाटी तथा पश्चिमगुवाहाटी क्षेत्रे निरस्ते, तयोः स्थाने न्यूगुवाहाटी तथा गुवाहाटीसेन्ट्रल् नामकौ विधानसभा-क्षेत्रौ निर्मितौ। तदतिरिक्तं नूतनं चतुस्त्रिंशत्-संख्या-युक्तं डिमोरिया विधानसभा-क्षेत्रम् अपि गठितम्, यत् अनुसूचितजातये आरक्षितं कृतम्।

नवगठितं डिमोरिया विधानसभा-क्षेत्रं मुख्यतया पूर्वस्य दिसपुर विधानसभा-क्षेत्रस्य महत्त्वपूर्णांशं पृथक्कृत्य निर्मितम्। एतत् क्षेत्रं गुवाहाटी लोकसभा-क्षेत्रस्य अन्तर्गतं वर्तते। अस्मिन् निर्वाचनक्षेत्रे गुवाहाटीनगरनिगमस्य केचन वार्डाः तथा समीपस्थानां विकासखण्डानां भागाः अपि समाविष्टाः। तेषु मुख्यतया वार्डसंख्या ४६ (नूनमाटीक्षेत्रस्य कश्चित् भागः), वार्डसंख्या ४९ (मठघरिय, गीतानगर, पथरक्वेरी क्षेत्राणां भागाः) तथा वार्डसंख्या ५२ (डाउनटाउन, द्वारकानगर क्षेत्रयोः कश्चित् भागः) अन्तर्भवन्ति।

तदतिरिक्तं चन्द्रपुर, डिमोरिया तथा नारङ्गी विकासखण्डयोः केचन भागाः तथा बहवः ग्रामपञ्चायताः अपि संयोज्य एषः विशालः निर्वाचनक्षेत्रः निर्मितः।

राजनैतिकगठबन्धनस्य आधारेण एषा आसन्दी असमगणपरिषद् दलाय प्राप्तुं शक्यते इति अनुमानं क्रियते। अतः अस्मात् दलात् प्रत्याशी भवितुं बहूनि नामानि चर्चायाम् आगतानि।

असमराज्यवस्तुनिगमस्य उपाध्यक्षः तथा क्षेत्रीयदलस्य युवा-नेता डॉ तपनकुमारदासः संभावितप्रत्याशिषु प्रमुखः मन्यते। तेन क्षेत्रस्य विविधेषु भागेषु निर्वाचनतयार्याः पूर्वमेव आरब्धाः।

अन्यतः भारतीयजनतापक्षात् अपि अनेके नेतारः प्रत्याशित्वस्य इच्छुकाः इति कथ्यन्ते, तेषु नवारुणमेधी, विजयपाठक, सुजीतविश्वासः तथा दिव्यज्योतिमेधी इत्येतानि नामानि प्रमुखानि। तथापि अन्ततः कः कस्य दलस्य प्रत्याशी भविष्यति इति निर्णयः आगामिकाले एव स्पष्टः भविष्यति।

डिमोरिया विधानसभा-क्षेत्रे आहत्य चतुर्नवत्यधिकषोडशसहस्रनवशतोत्तरद्विलक्षं मतदातारः सन्ति। तेषु एकलक्षपञ्चसहस्रत्रिशत्चतुरशीतिः पुरुषाः, एकलक्षैकादशसहस्रपञ्चशत् नवपञ्चाशत् महिलाः तथा षट् तृतीयलिङ्ग-मतदातारः सन्ति। अस्मिन् क्षेत्रे महिलानां संख्या पुरुषेभ्यः अधिका अस्ति। समग्रे क्षेत्रे द्विशत् द्विषष्टिः मतदानकेन्द्राणि स्थापितानि।

नवगठितस्य क्षेत्रस्य मतदातारः अस्मिन् वारे स्थानीयप्रत्याशिनं प्राथमिकतया चयनं कर्तुं आग्रहं कृतवन्तः। बहवः जनाः वदन्ति यत् पूर्वं यदा एतत् क्षेत्रं दिसपुर विधानसभा-क्षेत्रस्य अन्तर्गतं आसीत्, तदा स्थानीयसमस्याः सम्यक् न समाधानं प्राप्नुवन्ति स्म।

मतदातारः मन्यन्ते यत् तादृशः प्रतिनिधिः निर्वाचनीयः यः क्षेत्रे सहजतया उपलब्धः भवेत् तथा जनानां समस्याः सम्यक् अवगन्तुं समर्थः स्यात्।

डिमोरिया आसन्दी अनुसूचितजातये आरक्षितत्वेन क्षेत्रे मिश्रप्रतिक्रियाः दृश्यन्ते। संपूर्णअसम ट्राइबलसंघस्य सचिवः धीरेनइंग्तिः अवदत् यत् अस्मिन् क्षेत्रे बहुसंख्यका जनजातीयजनसंख्या अस्ति, अतः केषाञ्चन जनानां मध्ये अस्य अनुसूचितजातये आरक्षणस्य विषये असन्तोषः अपि दृश्यते।

राजनीतिविशेषज्ञाः अपि मन्यन्ते यत् आगामिनिर्वाचने जनजातीयमतदातारः निर्णायकां भूमिकां निर्वहन्ति।---------------------

हिन्दुस्थान समाचार