असम विधानसभानिर्वाचनम् 2026: खुमटाई निर्वाचन क्षेत्रे भाजपादलस्य दृढाः प्रत्याशिनः
गोलाघट्टम् (असम), 05 मार्चमासः (हि.स.)।अस्मिन् २०२६ असम विधानसभा निर्वाचनस्य सन्दर्भे राज्ये सर्वत्र राजनैतिकक्रियाकलापाः तीव्रतां प्राप्तवन्तः। निर्वाचनस्य घोषणा कदापि भवितुं शक्नोति। तस्यैव दृष्ट्या अन्येषु प्रदेशेषु इव खुमटाई विधानसभाक्षेत्रे अप
असम विस चुनाव 2026 कोलाज


गोलाघट्टम् (असम), 05 मार्चमासः (हि.स.)।अस्मिन् २०२६ असम विधानसभा निर्वाचनस्य सन्दर्भे राज्ये सर्वत्र राजनैतिकक्रियाकलापाः तीव्रतां प्राप्तवन्तः। निर्वाचनस्य घोषणा कदापि भवितुं शक्नोति। तस्यैव दृष्ट्या अन्येषु प्रदेशेषु इव खुमटाई विधानसभाक्षेत्रे अपि निर्वाचनसम्बद्धाः सज्जताः आरब्धाः सन्ति। परिसीमनानन्तरं त्रयाणां राजस्वचक्राणां संयोजनेन खुमटाई विधानसभाक्षेत्रस्य निर्माणं कृतम्। तेषु खुमटाई राजस्वचक्रं, मोरङ्गी राजस्वचक्रं तथा गोलाघाट राजस्वचक्रं समाविष्टानि सन्ति। क्षेत्रपुनर्निर्धारणानन्तरं खुमटाई क्षेत्रे नूतनरूपेण बृहन्मोरङ्गी मौजाया समावेशः कृतः, ब्रह्मपुत्रक्षेत्रं तु बहिः कृतम्।

ग्रामीणप्रदेशानां मध्ये स्थिते अस्मिन् विधानसभाक्षेत्रे द्वाविंशतिः ग्रामपञ्चायताः, चत्वारि जिलापरिषद् क्षेत्राणि, तथा मोरङ्गी कठालगुरी इति द्वौ विकासखण्डौ अन्तर्भवन्ति। परिसीमनानन्तरं क्षेत्रस्य जनसंख्यासंरचनायामपि पर्याप्तः परिवर्तनः जातः। अस्मिन् क्षेत्रे पञ्चत्रिंशदधिकानि लघु बृहत् च चायउद्यानानि सन्ति। अतः आगामिनिर्वाचने चायजनसमुदायस्य मतानि निर्णायकभूमिकां निर्वहिष्यन्ति इति मन्यते।

खुमटाई विधानसभाक्षेत्रस्य गतदशवर्षाणि मृणाल सैकिया इत्यनेन प्रतिनिधित्वं क्रियते। वर्षे २०१६ तमे भारतीयजनतापक्षस्य प्रत्याशिरूपेण मृणाल सैकिया प्रथमवारं विधायकत्वेन निर्वाचितः, २०२१ तमे च द्वितीयवारं विजयम् अलभत। अधुना कस्यचित् जनसभायां असमस्य मुख्यमन्त्री हिमन्त बिस्व सरमा इत्यनेन संकेतितं यत् २०२६ तमे अपि भारतीयजनतापक्षतः मृणाल सैकिया एव प्रत्याशी कर्तुं शक्यते। अतः प्रायः निश्चितं मन्यते यत् भाजपापक्षतः स एव निर्वाचनस्पर्धायां प्रविश्यति।

अन्यस्मिन् पक्षे चायउद्यानप्रधानक्षेत्रत्वात् भारतीयराष्ट्रीयकाङ्ग्रेसपक्षस्य पक्षतः रोज़लिना तिर्की इत्यस्याः संभाव्यप्रत्याशित्वस्य चर्चाः अपि तीव्राः जाताः।

परिसीमनानन्तरं १०६ संख्या खुमटाई विधानसभाक्षेत्रे समग्रतया १,७२,८१६ मतदातारः सन्ति। तेषु ८४,३४२ पुरुषाः, ८८,३४२ महिलाः तथा ५ तृतीयलिङ्गमतदातारः अन्तर्भवन्ति। अपरं परिसीमनानन्तरं ४,९८८ नूतनमतदातारः योजिताः, ३,४०९ मतदातारः तु मतदारसूचीतः अपाकृताः।

गौरतव्यं यत् १९८७ तमे गोलाघाट पूर्णजिलारूपेण घोषिते सति प्रारम्भे केवलं द्वे विधानसभाक्षेत्रे आस्ताम् पूर्वगोलाघाट तथा पश्चिमगोलाघाट। अनन्तरं अन्ये त्रयः क्षेत्राः योजिताः, येन समग्रतया पञ्च विधानसभाक्षेत्राणि अभवन्। तेषु खुमटाई, गोलाघाट, डेरगांव, बोकाखात तथा सरूपथर समाविष्टानि सन्ति।

अस्याः आसन्दस्य राजनैतिकइतिहासः अपि अतीव रोचकः अस्ति। वर्षे १९८५ तमे असमआन्दोलनानन्तरं प्रवीण कुमार गोगोई स्वतन्त्रप्रत्याशिरूपेण अत्र विधायकत्वेन निर्वाचितः। ततः १९९१ तमे काङ्ग्रेसपक्षस्य जीवकान्त गोगोई विधायकः अभवत्। १९९६ तमे पुनः प्रवीण कुमार गोगोई स्वतन्त्रप्रत्याशिरूपेण विजयम् अलभत। २००१ तमे जीवकान्त गोगोई तृतीयवारं विधायकः निर्वाचितः। स असमसरकारे मन्त्रिमण्डले, विधानसभाध्यक्षपदे तथा वित्तमन्त्रिपदे अपि स्वसेवां दत्तवान्।

जुलाईमासे २००२ तमे जीवकान्त गोगोय्याः निधनानन्तरं सम्पन्ने उपनिर्वाचने असमगणपरिषद्पक्षस्य प्रवीण कुमार गोगोई विधायकः निर्वाचितः। स २००६ तमे अपि अगपप्रत्याशिरूपेण विजयम् अलभत, अनन्तरं असमसरकारे क्रीडायुवकल्याणमन्त्री अपि अभवत्।

ततः २०११ तमे काङ्ग्रेसपक्षस्य बिस्मिता गोगोई इत्याः विधायकत्वेन निर्वाचनं जातम्। सा रेशमवस्त्रतन्तुउद्योगविकासविभागस्य मन्त्रिणी अपि आसीत्। २०१६ तथा २०२१ तयोः वर्षयोः भारतीयजनतापक्षस्य मृणाल सैकिया निरन्तरं द्विवारं अस्याः आसन्दस्य विजयं प्राप्तवान्।

अधुना आगामिनि २०२६ विधानसभानिर्वाचने खुमटाई आसन्दे पुनः रोचकस्पर्धाया सम्भावना व्यक्ता क्रियते।----------------------------

हिन्दुस्थान समाचार