छत्तीसगढ़े राज्यसभायै भाजपा प्रत्याशी लक्ष्मी वर्मा अकरोन्नामांकनं, मुख्यमंत्री  सायो जातः प्रस्तावकः
रायपुरम् 05 मार्चमासः (हि.स.)। छत्तीसगढ़राज्ये राज्यसभायाः आसनाय भारतीयजनतापक्षस्य प्रत्याशी लक्ष्मी वर्मा अद्य गुरुवासरे नामांकनपत्रं समर्पितवती। तस्याः प्रस्तावकाः प्रदेशस्य मुख्यमन्त्री विष्णुदेव साय, भाजपा अध्यक्षः किरण सिंह देव तथा वरिष्ठव
छत्तीसगढ़ में राज्यसभा सीट के लिए भाजपा प्रत्याशी लक्ष्मी वर्मा  नामांकन दाखिल करते हुए


रायपुरम् 05 मार्चमासः (हि.स.)।

छत्तीसगढ़राज्ये राज्यसभायाः आसनाय भारतीयजनतापक्षस्य प्रत्याशी लक्ष्मी वर्मा अद्य गुरुवासरे नामांकनपत्रं समर्पितवती। तस्याः प्रस्तावकाः प्रदेशस्य मुख्यमन्त्री विष्णुदेव साय, भाजपा अध्यक्षः किरण सिंह देव तथा वरिष्ठविधायकः धरमलाल कौशिकः अभवन्।

नामांकनपत्रं समर्पयितुं विधानसभां प्राप्तायाः लक्ष्मी वर्मायाः मुख्यमन्त्री विष्णुदेव साय, भाजपा अध्यक्षः किरण सिंह देव, केन्द्रीयराज्यमन्त्री तोखन साहू, सांसदः बृजमोहन अग्रवाल तथा अन्यैः नेतृभिः सादरं स्वागतं कृतम्।

उल्लेखनीयम् अस्ति यत् छत्तीसगढ़राज्यात् अधुना राज्यसभायां पञ्च सदस्याः प्रतिनिधित्वं कुर्वन्ति। तेषु द्वयोः सांसदयोः—फूलो देवी नेताम तथा केटीएस तुलसी—कार्यकालः ९ अप्रैल दिवसे समाप्तो भविष्यति। अपरतः राजीव शुक्ला तथा रंजीत रंजन इत्येतयोः कार्यकालः २९ जून २०२८ पर्यन्तं भविष्यति।

भारतीयजनतापक्षस्य देवेन्द्र प्रताप सिंह इत्यस्य कार्यकालः २ अप्रैल २०३० पर्यन्तं भविष्यति।

हिन्दुस्थान समाचार