Enter your Email Address to subscribe to our newsletters

गुवाहाटीनगरम्, ०५ मार्चमासः (हि.स.) — असम–राज्यस्य मुख्यमन्त्री डॉ.हिमंतबिस्व: सरमा उक्तवान् यत् होली–पर्वण: अवसरात् लब्ध–संक्षिप्त–विरामस्य पश्चात् ‘जन–आशीर्वाद–यात्रा’ अद्य नवीन–उत्साहेन तथा ऊर्जा–सम्पन्ना पुनः आरभ्यते।
मुख्यमन्त्री गुरुवासरे सामाजिक-माध्यमेन जनान् सूचयन् उक्तवान् — यात्रायाः अग्रिम: चरणः धेमाजी–जनपदस्य धेमाजी, सिसिबर–ग्राम च जोनाई–विधानसभा–क्षेत्रेषु केन्द्रित: भविष्यति। सः उक्तवान् यत् अस्य अभियानस्य माध्यमेन सः पुनः प्रत्यक्षं जनै: सह संवादं स्थापयिष्यति तथा जनसंपर्क–कार्यक्रमाय नवगतिं प्रदास्यति।
डॉ.सरमा राज्य–जनतया पूर्ववत् सहयोगं समर्थनं च अपेक्ष्य उक्तवान् — “जनतायाः आशीर्वादं तथा सहभागिता एव ‘जन–आशीर्वाद–यात्रा’ सफलतायाः प्रमुखा शक्तिः अस्ति।”
हिन्दुस्थान समाचार / अंशु गुप्ता