Enter your Email Address to subscribe to our newsletters

जयपुरम्, 05 मार्चमासः (हि.स.)।
पूर्वमुख्यमन्त्री अशोक गहलोतो हिन्दमहासागरक्षेत्रे हालकाले घटितानां घटनानां तथा तासां प्रति भारतस्य कूटनीतिकप्रतिक्रियायाः विषये केन्द्रसरकारं प्रति प्रश्नान् उत्थापितवान्। स सामाजिकमाध्यममञ्चे “एक्स” इति स्थले कृतस्य लेखस्य माध्यमेन अवदत् यत् भारतस्य वास्तविकशक्तिः तस्य स्वातन्त्र्यपूर्णे स्वरे अस्ति, न तु कस्यचित् “जीहुजूरी” इत्यस्मिन्।
सामाजिकमाध्यमे “एक्स” इत्यत्र प्रकाशिते स्वस्य सन्देशे गहलोत अवदत् यत् भारतस्य विदेशनीतेः इतिहासः सदैव स्वातन्त्र्यपूर्णः स्वाभिमानयुक्तश्च आसीत्। स स्मारितवान् यत् जवाहरलाल नेहरू द्वारा आरब्धं “नॉन अलाइन्ड मूवमेंट” इति आन्दोलनम् अस्य उत्तमं उदाहरणम् अस्ति, यत् भारतः सदा महाशक्तीनां दबावात् दूरं स्थित्वा स्वस्य स्वातन्त्र्यपूर्णां नीतिं अवलम्बितवान्।
गहलोत लिखितवान् यत् इन्दिरा गांधी इत्यस्याः कालखण्डे अपि भारतः निर्भीककूटनीत्याः परिचयं दत्तवान् तथा कस्यापि बाह्यदबावस्य पुरतः न नमितः। स वर्ष २०१३ तमे घटितस्य देवयानी खोबासगडे प्रकरणस्य उल्लेखं कृत्वा अवदत् यत् तस्मिन् समये मनमोहनसिंहस्य नेतृत्वे वर्तमानया सरकारया अमेरिकीयकूटनीतिज्ञेभ्यः प्रदत्ताः सुविधाः प्रत्याहृत्य “यथाकर्म तथा फलम्” इति प्रकारेण प्रत्युत्तरं दत्तम्।
पूर्वमुख्यमन्त्री स्वस्य सन्देशे हिन्दमहासागरे आयोजितस्य नौसैनिकाभ्यासस्य “मिलन २०२६” इत्यस्य तथा तस्मिन् सम्मिलितस्य ईरानी युद्धपोतस्य “आईआरआईएस डायना” इत्यस्य अपि उल्लेखं कृतवान्। स लिखितवान् यत् भारतस्य सामुद्रिकपड़ोसप्रदेशे एतादृशी घटना तथा तस्यां प्रति भारतस्य “रणनीतिकमौनम्” देशस्य प्रतिष्ठां प्रति प्रश्नान् जनयति।
गहलोतो लिखितवान् यत् अमेरिकायाः एतस्मिन् कथितमनमाने आचरणे मौनं धारयितुं भारतस्य “अतिथि देवो भव” इति परम्परायाः तथा सैन्यगौरवस्य विपरीतम् अस्ति। स एतदपि अपृच्छत् यत् हिन्दमहासागरक्षेत्रे स्वयम् “नेट् सिक्योरिटी प्रोवाइडर” इति रूपेण आत्मानं निर्दिशन् भारतः एतादृशेषु प्रसङ्गेषु किमर्थं मौनं धारयति।
स लिखितवान् यत् उदयोन्मुखमहाशक्तिरूपेण भारतं स्वस्य क्षेत्रे घटमानासु एतादृशासु घटनासु मूकदर्शकः न भवेत्, अपि तु स्वस्य कूटनीतिकस्वायत्ततां तथा अतिथिदेशानां सुरक्षां सर्वोपरि स्थापयेत्।
---------------
हिन्दुस्थान समाचार