Enter your Email Address to subscribe to our newsletters

धर्मशाला, 05 मार्चमासः (हि.स.)।
अष्टमार्चदिने आचर्यमाणस्य अन्ताराष्ट्रियमहिलादिवसस्य उपलक्ष्ये धर्मशालानगरे आयोज्यमानस्य “अस्मिता” कार्यक्रमस्य आयोजनसम्बन्धे वीरवासरे अपरजिलाधिकारी विनयकुमारस्य अध्यक्षतायां बैठकाऽयोजिता। अस्मिन् सभायां मेरा युवा भारतस्य उपनिदेशकः ध्रुवडोगरा, सीडीपीओ रमेशकुमारः, डाक्टर दुष्यन्तकुमारः तथा सम्बन्धितविभागानां अधिकारीणः, क्रीडाविभागस्य प्रतिनिधयः तथा आयोजनसम्बद्धाः अन्ये अधिकारिणः अपि सहभागीभूताः।
अपरजिलाधिकारी विनयकुमारः अवदत् यत् अस्य आयोजनस्य मुख्योद्देश्यः महिलानां युवतीनां च क्रीडासु सहभागितां वर्धयितुं, शारीरिकस्वास्थ्यस्य प्रति जागरूकतां प्रसारयितुं तथा क्रीडासंस्कृतिं सुदृढां कर्तुं च अस्ति।
सः सभायां अधिकारिणः निर्देशयन् अवदत् यत् अन्ताराष्ट्रियमहिलादिवसस्य उपलक्ष्ये आयोज्यमानाः एते क्रीडाकार्यक्रमाः व्यापकतया सफलाः क्रियन्ताम्, येन अधिकाधिकाः महिलाः युवत्यश्च तेषु भागं ग्रहीतुं शक्नुवन्ति। सः उक्तवान् यत् अस्याः पहलायाः माध्यमेन महिलाः क्रीडाभिः सह संयोजयितुं तथा स्वस्थजीवनशैलीं प्रोत्साहयितुं महत्त्वपूर्णः अवसरः प्राप्तः भविष्यति।
तेन उक्तं यत् कार्यक्रमस्य अन्तर्गतं एथलेटिक्सप्रतियोगितानां आयोजनं भविष्यति, यस्मिन् शतमीट्रदौड, द्विशतमीट्रदौड तथा चतुःशतमीट्रदौड इत्येतानि स्पर्धाः आयोज्यन्ते। तदतिरिक्तं सहभागिनां कृते विविधाः मनोरञ्जनात्मकक्रियाकलापाः अपि आयोज्यन्ते। प्रतियोगिताः त्रिषु आयुवर्गेषु आयोज्यन्ते—त्रयोदशवर्षपर्यन्तः वर्गः, त्रयोदशात् अष्टादशवर्षपर्यन्तः वर्गः तथा अष्टादशवर्षात् अधिकः आयुवर्गः।
हिन्दुस्थान समाचार