योगीसर्वकारस्य प्रयत्नेन अर्धसंख्यकजनतायाः जीवने प्रकाशः, 30 सहस्रसंख्यकाः 'विद्युत सख्यः आत्मनिर्भराः
ग्रामीणोत्तरप्रदेशे महिलाः अकरोत् उत्तमम्, एतावता 3250 कोटि रुप्यकाणां कीर्तितो विद्युद्बिलराशिः एकत्रितः 15 हजार से अधिक विद्युत सखी सक्रिय रूप से फील्ड में तैनात, बाकी प्रशिक्षित महिलाएं भी जल्द उतरेंगी मैदान में लखनऊ, 05 मार्चमासः (हि.स.)।
मुख्यमंत्री योगी आदित्यनाथ


ग्रामीणोत्तरप्रदेशे महिलाः अकरोत् उत्तमम्, एतावता 3250 कोटि रुप्यकाणां कीर्तितो विद्युद्बिलराशिः एकत्रितः

15 हजार से अधिक विद्युत सखी सक्रिय रूप से फील्ड में तैनात, बाकी प्रशिक्षित महिलाएं भी जल्द उतरेंगी मैदान में

लखनऊ, 05 मार्चमासः (हि.स.)।

उत्तरप्रदेशस्य मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य नेतृत्वे प्रदेशसरकारः महिला-सशक्तीकरणस्य दिशि नूतनानि कीर्तिमानानि स्थापयति। योगी-सरकारस्य “विद्युत् सखी योजना” ग्रामीणस्त्रीणां जीवने न केवलं प्रकाशं आनयति, अपितु ताः आर्थिकरूपेण अपि सुदृढाः करोति।

अद्यपर्यन्तं एताः ग्रामीणस्त्रियः स्वपरिश्रमेण लगनेन च ३,२५० कोटि-रूप्यकाधिकस्य विद्युत्-बिल-संग्रहं कृत्वा अभूतपूर्वं कीर्तिमानं स्थापितवन्त्यः, यत् महिला-सशक्तीकरणस्य शक्तिशाली आदर्शरूपेण प्रतिष्ठितम् अस्ति। प्रदेशे अद्य ३० सहस्राधिकाः महिलाः विद्युत् सखी इति रूपेण पंजीकृताः सन्ति। तासु १५ सहस्राधिकाः महिलाः पूर्णसक्रियतया क्षेत्रेषु कार्यरताः सन्ति, ये गृहं गृहं गत्वा विद्युत्-बिलं संगृह्णन्ति।

महिलानां कृते सम्मानजनक-आयस्य सुदृढं साधनम्

योगी-सरकारस्य योजना अस्ति यत् प्रशिक्षणं तथा अन्याः औपचारिकताः सम्पन्नाः भवित्वा अवशिष्टाः महिलाः अपि शीघ्रमेव कार्यक्षेत्रे नियोज्यन्ते, येन ग्रामीण-ऊर्जा-सेवायाम् आत्मनिर्भरता-नवदृष्टान्तः स्थाप्येत। एषा योजना महिलानां कृते सम्मानजनक-आयस्य सुदृढं साधनम् अपि निर्मितवती अस्ति।

सहस्रशः “भगिन्यः” लक्षपतयः अभवन्

अस्यां योजनायां ग्रामीणक्षेत्रे विद्युत्-सखिभ्यः द्विसहस्र-रूप्यक-पर्यन्तस्य विद्युत्-बिल-संग्रहे २० रूप्यकाणि कमीशनरूपेण दीयन्ते, द्विसहस्राधिके बिल-संग्रहे तु एक-प्रतिशतं कमीशनं प्राप्यते। अस्याः योजनायाः माध्यमेन अद्य ग्रामेषु सहस्रशः “दीदियः” लखपतयः अभवन्, तासां सामाजिक-पारिवारिक-मानसम्मानः अपि पर्याप्तं वर्धितः।

उपभोक्तृभ्यः सुविधा महिलाभ्यः च जीविकासाधनम्

उत्तरप्रदेशे अस्यां योजनायां माध्यमेन ग्रामीणक्षेत्रेषु स्वसहायता-समूहैः सम्बद्धाः महिलाः विद्युत्-बिल-संग्रहण-एजेन्ट्-रूपेण सशक्ताः कर्तुं लक्ष्यं निर्धारितम् आसीत्। अस्याः सफल-उद्यमस्य फलरूपेण ग्रामीण-उपभोक्तृभ्यः दीर्घ-पङ्क्तिभ्यः मुक्तिः प्राप्ता, बिल-समर्पणं च सुकरीजातम्; अन्यतः महिलानां कृते एषा योजना उत्तमं रोजगारसाधनम् अपि सिद्धा।

---------------

हिन्दुस्थान समाचार