नीति आयोगः उत्तरप्रदेशे जनपद लखीमपुर खीरी इत्यस्य विकासखंडद्वयस्य लब्धः सम्मानः
-लखीमपुर खीरी इत्यस्य धौरहराविकासखंडाय लब्धं स्वर्णपदकं बांकेगंजाय च कांस्यपदकम् लखनऊ, 05 मार्चमासः (हि. स.)। योगीसरकारस्य शासनस्य अधीनं राष्ट्रियस्तरे पुनः एकां महतीं उपलब्धिं प्राप्तवती। नीति-आयोगेन आकांक्षी ब्लॉक कार्यक्रमस्य अन्तर्गतस्य उ
मुख्यमंत्री योगी


-लखीमपुर खीरी इत्यस्य धौरहराविकासखंडाय लब्धं स्वर्णपदकं बांकेगंजाय च कांस्यपदकम्

लखनऊ, 05 मार्चमासः (हि. स.)।

योगीसरकारस्य शासनस्य अधीनं राष्ट्रियस्तरे पुनः एकां महतीं उपलब्धिं प्राप्तवती। नीति-आयोगेन आकांक्षी ब्लॉक कार्यक्रमस्य अन्तर्गतस्य उत्तरप्रदेशस्य लखीमपुर खीरी जनपदे स्थितौ धौरहरा तथा बांकेगंज ब्लॉक इत्येतौ उत्कृष्टकार्याय क्रमशः गोल्ड पदकं तथा कांस्यपदकं प्रदत्तौ।

जुलाई मासात् सितम्बर मासपर्यन्तं 2024 वर्षे आयोजिते संपूर्णता अभियानस्य अवधौ लखीमपुर खीरी जनपदस्य बांकेगंज तथा धौरहरा ब्लॉक इत्येताभ्यां उत्कृष्टप्रदर्शनस्य नूतना कथा लिखिता। एते पदके लखीमपुर खीरी जनपदस्य जिलाधिकारी दुर्गा शक्ति नागपाल इत्यया स्वीकृते। तया सह “सर्टिफिकेट ऑफ एप्रिसिएशन” इति प्रशंसापत्रेण अपि सम्मानिता।

जिलाधिकारी दुर्गा शक्ति नागपाल अवदत् यत् मुख्यमंत्री योगिनः आदित्यनाथस्य मार्गदर्शनेन जनपदस्य आकांक्षी ब्लॉकेषु विविधकार्यक्रमाः आयोजिताः भवन्ति। तेषु कार्यक्रमेषु अन्तर्गतं लखीमपुर खीरी जनपदस्य बांकेगंज ब्लॉकेन “हेल्थ एण्ड न्यूट्रिशन”, “एग्रीकल्चर एण्ड अलाइड सर्विसेज़” तथा “एस्पिरेशनल ब्लॉक्स प्रोग्राम अन्तर्गत सोशल डेवलपमेंट” इत्येषु विषयेषु त्रिषु प्रमुखसूचकाङ्केषु शतप्रतिशत संतृप्तिः प्राप्ता। अस्य उत्कृष्टकार्यस्य कारणेन नीति आयोगेन अस्मै ब्लॉकाय ब्रॉन्ज पदकं प्रदत्तम्। एषा उपलब्धिः मुख्यमंत्री योगी आदित्यनाथस्य प्रेरणया सम्भवा अभवत्।

मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य अभिप्रायानुसारं भूमिस्तरे सततनिगरानी, विभागानां मध्ये उत्तमसमन्वयः तथा निर्धारितसमये लक्ष्यसिद्धेः रणनीतिः इत्येतैः कारणैः अयं ब्लॉक आदर्शरूपेण स्थापितः।

जिलाधिकारी उक्तवती यत् धौरहरा ब्लॉकेन षट्सु सूचकाङ्केषु शतप्रतिशत संतृप्तिं प्राप्त्य गोल्ड पदकं प्राप्तम्। स्वास्थ्यसेवानां उत्तमप्राप्तिः, पोषणसुधाराय दृढप्रयत्नाः तथा कृषियोजनानां लाभार्थिषु प्रत्यक्षप्राप्तिः इत्येतैः उपायैः परिणामाः अत्यन्तं प्रभावकारी अभवन्।

संपूर्णता अभियानस्य अन्तर्गतं कृतप्रदर्शनेन एतत् सिद्धं जातम् यत् यदा प्रशासनिक इच्छाशक्ति तथा दलभावना सह भवतः तदा लक्ष्याणि केवलं कागदपत्रेषु न तिष्ठन्ति, किन्तु व्यवहारतः भूमौ अपि सफलतया कार्यरूपेण परिणमन्ति।

जिलाधिकारी दुर्गा शक्ति नागपाल सीडीओ अभिषेक कुमारस्य उपस्थितौ बांकेगंज ब्लॉकस्य बीडीओ ऋषिकांत अहिरवार तथा धौरहरा ब्लॉकस्य तत्कालीन बीडीओ सुमित कुमार सिंह (अधुना बीडीओ फूलबेहड़) इत्येताभ्यां प्रशस्तिपत्रं प्रदाय सम्मानितवती।

---------------

हिन्दुस्थान समाचार