Enter your Email Address to subscribe to our newsletters

-मेडिकल-डिवाइस-निर्माणात् इलेक्ट्रॉनिक्स-उद्योगपर्यन्तं उच्च-मूल्य-उत्पादनस्य संगठितः क्लस्टर-प्रारूपः,
फिल्म-सिटी तः फिनटेक-सिटी पर्यन्तं सृजनात्मक-डिजिटल-अर्थव्यवस्थयोः संगमः, जापानी-कोरियन-सिंगापुर-नगराणां माध्यमेन निवेशात् अपि परं प्रौद्योगिकी तथा कार्यम्
-संस्कृतेः आदानप्रदानम् इत्येवं नवम् औद्योगिक-विकासस्य रूपं प्रकटते।
लखनऊ, ५ मार्चमासः। यमुना एक्सप्रेस-वे औद्योगिक-विकास-प्राधिकरणेन विकसिताः प्रस्ताविताश्च औद्योगिक-नगराणां स्वरूपं अधुना पारम्परिक-औद्योगिक-भूमिविभाजनात् अतीत्य संगठित-क्षेत्राधारित-आर्थिक-संरचनारूपेण विकसितं दृश्यते। योगी-सर्वकारस्य काले मेडिकल-डिवाइस-पार्क, इलेक्ट्रॉनिक्स-निर्माण-क्लस्टर, टॉय-सिटी तथा अपैरल-पार्क इत्यादीनि स्थापित-परियोजनानि, तेषां सह फिल्म-सिटी, फिनटेक-सिटी तथा विदेश-सहभागितया प्रस्ताविताः थीम-सिटीज् मिलित्वा यमुना एक्सप्रेस-वे क्षेत्रं बहु-क्षेत्रीय-औद्योगिक-मार्गरूपेण परिवर्तयितुं प्रयत्नं कुर्वन्ति।
सेक्टर-२८ मध्ये ३५० एकर-परिमिते क्षेत्रे विकसितः मेडिकल-डिवाइस-पार्कः तथा सेक्टर-२४ मध्ये २०० एकर-परिमितः इलेक्ट्रॉनिक्स-निर्माण-क्लस्टरः उच्च-मूल्य-उत्पादनस्य प्रोत्साहनार्थं स्थापितौ स्तः। तेन सह सेक्टर-३३ मध्ये १०० एकर-परिमितायां भूमौ टॉय-सिटी तथा सेक्टर-२९ मध्ये १७५ एकर-परिमितः अपैरल-पार्कः श्रम-आधारित-उद्योगानां कृते संगठित-संरचनां प्रददाति। एताः परियोजनाः एवं प्रकारेण विन्यस्ताः सन्ति यत् कच्च-द्रव्यादारभ्य सिद्ध-उत्पादपर्यन्ता सम्पूर्णा आपूर्ति-शृङ्खला एकस्मिन् एव औद्योगिक-मार्गे विकसितुं शक्नुयात्।
सेक्टर-२१ मध्ये प्रायः १००० एकर-परिमिते क्षेत्रे प्रस्ताविता फिल्म-सिटी केवलं मनोरञ्जन-परियोजना इति न दृश्यते। तस्याः विकासः मीडिया-केन्द्ररूपेण, विषय-वस्तु-निर्माण-केन्द्ररूपेण, उत्तर-निर्माण-प्रक्रिया-केन्द्ररूपेण तथा डिजिटल-सेवा-केन्द्ररूपेण कर्तुं योजना अस्ति। तस्याः समांतररूपेण सेक्टर-११ मध्ये ५०० एकर-परिमिते क्षेत्रे प्रस्ताविता फिनटेक-सिटी निर्माण-क्षेत्रं सेवा-क्षेत्रं च डिजिटल-वित्तीय-सेवाभिः संयोजयितुं प्रयत्नं करिष्यति। अनेन औद्योगिक-एककानां कृते भुगतान-निवेश-वैश्विक-लेनदेनादिषु एकीकृत-मञ्चस्य व्यवस्था सुलभा भविष्यति।
अन्ताराष्ट्रिय-सहयोगस्य दृष्ट्या सेक्टर-५ए मध्ये जापानी-सिटी, सेक्टर-४ मध्ये कोरियन-सिटी तथा सेक्टर-७ मध्ये सिंगापुर-सिटी इत्यासां विकासार्थं ५००-५०० एकर-परिमिता भूमिः चिन्हिता अस्ति। एतासां परियोजनानां लक्ष्यं केवलं विदेशी-निवेशस्य आकर्षणं न, अपि तु सम्बन्धित-देशानां प्रौद्योगिकी-प्रबन्धन-पद्धतिं औद्योगिक-कार्य-संस्कृतिं च स्थानीय-संरचनायां समावेशयितुं अपि अस्ति। औद्योगिक-विशेषज्ञाः मन्यन्ते यत् यदि एतासु सिटीषु प्रमुखाः उद्योग-संस्थाः स्थाप्यन्ते तर्हि तेन क्षेत्रे सहायक-उद्योगाः सेवा-क्षेत्रं च अपि तीव्रं विकासं प्राप्स्यन्ति।
राज्य-सर्वकारस्य प्रवक्त्रा उक्तं यत् टप्पल-क्षेत्रे २०० एकर-परिमितः प्रस्तावितः लॉजिस्टिक्स-पार्कः अस्य समग्र-औद्योगिक-संरचनायाः आपूर्ति-वितरण-व्यवस्थां सुदृढां करिष्यति। तदतिरिक्तं सेक्टर-२९ मध्ये २०० एकर-परिमितः एमएसएमई-पार्कः लघु-मध्यम-उद्यमान् महदुद्योगैः सह संयोजयितुं माध्यमं भविष्यति। अनेन स्थानीय-उद्यमिनां उत्पादन-शृङ्खलायां भागित्वस्य अवसरः भविष्यति तथा रोजगार-अवसराणां वृद्धेः सम्भावना अपि वर्धिष्यते।
यमुना एक्सप्रेस-वे परितः विकसिताः एताः औद्योगिक-सिटीज् केवलं निवेशपर्यन्तं प्रभावं न स्थापयिष्यन्ति। भूम्युपयोगः, आवासीय-नगर-समूहाः, कौशल-विकास-संस्थानानि तथा सहायक-सेवानां विस्तारः इत्यादीनां माध्यमेन पश्चिम-उत्तरप्रदेशस्य सामाजिक-आर्थिक-परिदृश्ये महत्त्वपूर्णं परिवर्तनं सम्भाव्यते।
हिन्दुस्थान समाचार