संस्थानस्य निरंतर प्रगतौ सुरक्षा हेतवे सर्वेषां भागिता अत्यंतं महत्वपूर्णा - रंजनः
हरिद्वारम्, 05 मार्चमासः (हि.स.)। राष्ट्रीय सेफ्टी काउंसिलद्वारा चतुर्थमार्चदिने समग्रे देशे आचर्यमाणस्य राष्ट्रियसुरक्षादिवसस्य उपलक्ष्ये हरिद्वारप्रभागे बीएचईएलसंस्थायाः सुरक्षा-पक्षस्य आयोजनं क्रियते। चतुर्थमार्चदिनात् सप्तदशमार्चदिनपर्यन्तं
शापथा िदलाते हुए रंजन कुमार््


हरिद्वारम्, 05 मार्चमासः (हि.स.)।

राष्ट्रीय सेफ्टी काउंसिलद्वारा चतुर्थमार्चदिने समग्रे देशे आचर्यमाणस्य राष्ट्रियसुरक्षादिवसस्य उपलक्ष्ये हरिद्वारप्रभागे बीएचईएलसंस्थायाः सुरक्षा-पक्षस्य आयोजनं क्रियते।

चतुर्थमार्चदिनात् सप्तदशमार्चदिनपर्यन्तं आयोज्यमानस्य अस्य वर्षस्य सुरक्षा-पक्षस्य विषयः अस्ति — “सुरक्षां वर्धयितुं जनान् समावेशयाम, शिक्षयाम तथा सशक्तीकुर्याम।

पक्षस्य शुभारम्भः बीएचईएल-हरिद्वारस्य कार्यपालकनिदेशकेन रंजनकुमारनाम्ना महाप्रबन्धकान् वरिष्ठाधिकारिणः च “सुरक्षा-स्वास्थ्य-शपथं” ग्राहयित्वा कृतः।

राष्ट्रियसुरक्षादिवसस्य तथा बीएचईएलसुरक्षापक्षस्य उपलक्ष्ये सर्वेषां कर्मचारिणां नाम स्वस्य शुभकामनासन्देशे रंजनकुमारः उक्तवान् यत् कस्यापि औद्योगिकसंस्थानस्य प्रगत्यां सुरक्षायाः अत्यन्तं महत्त्वपूर्णं योगदानं भवति। तेन उक्तं यत् राष्ट्रियसुरक्षादिवसस्य आयोजनस्य प्रमुखः उद्देश्यः सर्वेषु कर्मचारिषु सुरक्षायाः प्रति जागरूकतां वर्धयितुं तान् सशक्तीकर्तुं च अस्ति।

अस्मिन्नवसरे सर्वे कर्मचारिणः अपि स्वस्वविभागाध्यक्षानां माध्यमेन कार्यस्थले एव शपथग्रहणं कृतवन्तः।

उल्लेखनीयम् अस्ति यत् सुरक्षा-पक्षस्य अवधौ बीएचईएल-हरिद्वारस्य स्वास्थ्य-सुरक्षा-पर्यावरणविभागेन प्रभागे विविधाः कार्यक्रमाः प्रतियोगिताश्च आयोज्यन्ते। तेषु अन्तर्विभागीयप्राथमिकचिकित्सापेटिकायाः संरक्षणम्, अग्निशमनाभ्यासः तथा उद्धारप्रदर्शनम्, सुरक्षा-प्रशिक्षणम्, सम्मानसमारोहः इत्यादयः अपि समाविष्टाः सन्ति।

संस्थानस्य सुरक्षायाः प्रति गाम्भीर्यं दर्शयन्त्याः एतासां सर्वासां क्रियाणां मुख्यः उद्देश्यः कर्मचारिणः सुरक्षानियमपालनाय प्रेरयितुं तथा शून्यहानिलक्ष्यस्य प्राप्तये प्रोत्साहितुं च अस्ति।

अस्मिन्नवसरे प्रमुखः (एचएसई) ए. के. कटारिया सहिताः महाप्रबन्धकाः वरिष्ठाधिकारिणश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार