Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 06 मार्चमासः (हि.स.)।आमआदमीपक्षस्य राष्ट्रियसंयोजकः तथा दिल्लीनगरस्य पूर्वमुख्यमन्त्री अरविन्दकेजरीवालः शुक्रवासरे दिल्लिविधानसभायाः विशेषाधिकारसमित्याः समक्षं उपस्थितो भविष्यति। केजरीवालेन अस्याः सम्पूर्णकार्यवाह्याः प्रत्यक्षप्रसारणस्य अपि आग्रहः कृतः।
अरविन्दकेजरीवालः शुक्रवासरे सामाजिकमाध्यममञ्चे एक्स इत्यस्मिन् लिखितवान् यत् अद्य दिल्लिविधानसभायाः विशेषाधिकारसमित्याः समक्षं अपराह्णे त्रिवादने उपस्थितो भविष्यामि। मम आह्वानं कृतम् अस्ति यत् फांसीगृहविषये चर्चां कर्तुं आगच्छेयम्।
उल्लेखनीयम् अस्ति यत् पूर्वमुख्यमन्त्री अरविन्दकेजरीवालः मङ्गलवासरे दिल्लिविधानसभायाः विशेषाधिकारसमित्यै पत्रं लिखित्वा सूचितवान् यत् सः समनानुसारं षष्ठमार्चदिनाङ्के व्यक्तिगतया उपस्थितो भविष्यति।
अयं विषयः दिल्लिविधानसभापरिसरे कथितस्य फांसीगृहस्य उपस्थित्या सम्बद्धविवादेन सम्बद्धः अस्ति, यस्मिन् पूर्वआमआदमीपक्षसर्वकारस्य समये कृतानां दावानां प्रामाणिकतायाः विषये प्रश्नाः उत्पन्नाः सन्ति।
विशेषाधिकारसमित्या पूर्वमेव अरविन्दकेजरीवालः, मनीषसिसोदिया, रामनिवासगोयलः तथा राखीबिरला इत्येतेभ्यः समनाः निर्गताः आसन्, यान् अधुना केजरीवालेन स्वीकृताः।
---------------
हिन्दुस्थान समाचार