असम–विधानसभा–निर्वाचनम् २०२६ - छमरिया–विधानसभा–क्षेत्रे काङ्ग्रेस–विधायकं रकीबुद्दीनौ प्रति दृढा प्रतिस्पर्धा
कामरूप–(ग्रामीण)–जनपदम्, ०६ मार्चमासः (हि.स.)। असम–राज्ये अग्रिमेषु दिनेषु भविष्यमाणस्य २०२६ तमे वर्षे विधानसभानिर्वाचनस्य निमित्तं राजनैतिक–गतिविधयः तीव्रतां प्राप्तवन्त्यः। अस्मिन् सन्दर्भे क्षेत्र–पुनर्निर्धारणेन निर्वाचन–परिदृश्ये महत्त्वपूर्णं
असम विस चुनाव 2026 कोलाज


कामरूप–(ग्रामीण)–जनपदम्, ०६ मार्चमासः (हि.स.)। असम–राज्ये अग्रिमेषु दिनेषु भविष्यमाणस्य २०२६ तमे वर्षे विधानसभानिर्वाचनस्य निमित्तं राजनैतिक–गतिविधयः तीव्रतां प्राप्तवन्त्यः। अस्मिन् सन्दर्भे क्षेत्र–पुनर्निर्धारणेन निर्वाचन–परिदृश्ये महत्त्वपूर्णं परिवर्तनं जातम्। क्षेत्र–पुनर्निर्धारण–प्रक्रियायां अनेकानां विधानसभा–क्षेत्राणां सीमाः परिवर्तिताः, केषाञ्चन नामानि अपि परिवर्तितानि।

असम–राज्यस्य नव–गठितेषु निर्वाचन–क्षेत्रेषु कामरूप–(ग्रामीण)–जनपदस्य छमरिया–क्षेत्रम् अपि एकम् अस्ति। कामरूप–(ग्रामीण)–जनपदे विधानसभा–क्षेत्राणां संख्या पूर्ववत् एव अस्ति, तथापि जनपदे छमरिया–नामकं नूतनं क्षेत्रं निर्मितम्। अस्य जनपदस्य निर्वाचन–क्षेत्राणि क्रमशः छमरिया, बोको–छयगाँव (अनुसूचित–जनजाति), पलाशबाड़ी, हाजो (अनुसूचित–जाति), रंगिया तथा कमलपुर इत्यादय: सन्ति। अधुना निर्वाचन–कालस्य समीपे आगते छमरिया–क्षेत्रे निर्वाचन–सक्रियता अपि तीव्रा जाता।

उल्लेखनीयं यत् कामरूप–जनपदस्य पूर्वस्थितयोः बोको तथा छयगाँव-क्षेत्रयोः संयोजनेन नूतनं निर्वाचन–क्षेत्रं छमरिया निर्मितम्। नवगठिते २७–संख्या–युक्ते छमरिया–क्षेत्रे गोरैमरी तथा सोनतली–विकास–खण्डौ अपि समाविष्टौ स्तः, तथा पूर्वयोः बोको–छयगाँव–क्षेत्रयोः विस्तीर्ण–भागः अपि अस्मिन् अन्तर्भूतः। अस्मात् नवगठितात् छमरिया–क्षेत्रात् २०२६ तमे वर्षे विधानसभानिर्वाचने स्थानीय–अभ्यर्थिनः प्रत्यर्पणस्य याचना अपि तीव्रतां प्राप्नोति।

नवगठिते अस्मिन् विधानसभा–क्षेत्रे काङ्ग्रेस, एआईयूडीएफ तथा असम–गण–परिषद् इत्यादिनां दलानां व्यापक–सक्रियता आरब्धा। अभ्यर्थित्व–विषये छमरिया–विधानसभा–क्षेत्रम् अधुना विशेष–आकर्षणं प्राप्तम्। अस्मिन् क्षेत्रे असम–गण–परिषद् पूर्वस्य छयगाँव–क्षेत्रस्य प्रतिनिधिं डॉ.कमलाकान्त–कलिता इत्येनं अभ्यर्थिरूपेण स्थापयितुं योजना करोति। गगैमारी–नगरे आयोजितायां अगप–दलस्य क्षेत्रीय–सभायां अस्मिन् क्षेत्रे डॉ.कमलाकान्त–कलिता इत्यस्य अभ्यर्थित्वस्य प्रस्तावः प्रस्तुतः।

अन्यत् पक्षं निर्वाचनं केन्द्रे स्थाप्य छमरिया–क्षेत्रे काङ्ग्रेस–दले अन्तिम: टिकट–सम्बद्धः संघर्षः अपि प्रवर्तते। काङ्ग्रेस–दले अभ्यर्थित्वाय द्वयोः नेत्रो: नाम्न्यो: चर्चा प्रवर्तते—छयगाँव–विधानसभा–क्षेत्रात् त्रिवारं निर्वाचितः विधायकः रकीबुद्दीन–अहमद: तथा महबूब–अली। यद्यपि अस्मिन् निर्वाचन–क्षेत्रे जनैः रकीबुद्दीन–अहमदः पुनः न निर्वाचितः, तथापि तस्य निर्वाचन–क्षेत्रे व्यापक–सक्रियता दृश्यते। अपरं च काङ्ग्रेस–नेता महबूब–अली अपि दिवा–रात्रं प्रचार–कार्येषु संलग्नः दृश्यते। उल्लेखनीयं यत् रकीबुद्दीन–अहमदाय टिकट–न–प्रदानार्थं कतिपयैः काङ्ग्रेस–नेतृभिः प्रियंका–गान्धी इत्यस्याः समीपे अपि निवेदनम् कृतम्।

एतेन कारणेन अस्मिन् क्षेत्रे रकीबुद्दीन–अहमदस्य स्थाने छमरिया–क्षेत्रात् महबूब–अली काङ्ग्रेस–दलस्य अभ्यर्थिरूपेण प्रत्यर्पितः भविष्यति इति सम्भावना वर्धते। स्थानीय–अभ्यर्थिनां याचना, काङ्ग्रेस–दलस्य आन्तरिक–समीकरणानि तथा अग्रिमनिर्वाचनस्य वातावरणम् इत्येतैः अस्मिन् विषये नूतनाः चर्चाः उत्पन्नाः।

अपरतः नवगठिते अस्मिन् विधानसभा–क्षेत्रे अगप–काङ्ग्रेस–दलयोः अभ्यर्थिभिः सह डॉ.शाहजहाँ–अली, दश–वर्षपर्यन्तं बोको–विधानसभा–क्षेत्रस्य प्रतिनिधित्वं कृतवती नन्दिता–दास, ज्योति–प्रसाद–दास, पूर्व–विधायकः गोपीनाथ–दास:, तथा युवा–नेता अधिवक्ता अमान–ओवादुद: अपि अस्मात् क्षेत्रात् निर्वाचन–सज्जायां संलग्ना: सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता