नामनिर्देशन–प्रत्याहारस्य अन्तिमदिनपर्यन्तं चलिष्यति अखिल–गोगोई इत्यस्य गठबन्धन–राजनीतेः ‘नाटकम्’ - डॉ.हिमन्तः
गुवाहाटीनगरम्, ०६ मार्चमासः (हि.स.) — असम–राज्यस्य मुख्यमन्त्री डॉ.हिमन्त–बिस्व–शर्मा शुक्रवासरे उक्तवान् यत् अखिल–गोगोई इत्यस्य विषये गठबन्धन–राजनीतेः “नाटकम्” नामनिर्देशन–पत्र–प्रत्याहारस्य अन्तिमदिनपर्यन्तं प्रवर्तिष्यते। तेन राजनैतिक–दलेभ्यः पर
6d3df02b75eb89c11594a2d8f6fccfa0_1489306739.jpg


गुवाहाटीनगरम्, ०६ मार्चमासः (हि.स.) — असम–राज्यस्य मुख्यमन्त्री डॉ.हिमन्त–बिस्व–शर्मा शुक्रवासरे उक्तवान् यत् अखिल–गोगोई इत्यस्य विषये गठबन्धन–राजनीतेः “नाटकम्” नामनिर्देशन–पत्र–प्रत्याहारस्य अन्तिमदिनपर्यन्तं प्रवर्तिष्यते। तेन राजनैतिक–दलेभ्यः परामर्शः अपि दत्तः यत् गठबन्धन–विषये अखिल–गोगोई इत्यस्मिन् विश्वासः न कर्तव्यः।

नहरकटिया–नगरे शुक्रवासरे आयोजिते कार्यक्रमे सहभागं कर्तुं पूर्वं पत्रकारैः सह वार्तालापे मुख्यमन्त्री उक्तवान् यत् अखिल–गोगोई गठबन्धन–विषये पुनः पुनः स्वस्य मतं परिवर्तयति, एषा च सम्पूर्णा प्रक्रिया अन्तिमक्षणपर्यन्तं अनिश्चिततां स्थापयितुं कृतायाः रणनीतेः भागः अस्ति।

मुख्यमन्त्रिणा एतदपि सूचितं यत् शिवसागर–विधानसभा–आसनस्य विषये अद्यापि भारतीय–जनता–पक्षेण (भाजपा) अन्तिमनिर्णयः न कृतः। अस्मिन् आसने भाजपाया: अथवा तस्य सहयोगिनः असम–गण–परिषदः मध्ये कः निर्वाचनं करिष्यति इति विषये अद्यापि चर्चा प्रवर्तते।

तेन उक्तं यत् गठबन्धनस्य अन्तर्गतं विचार–विमर्शानन्तरमेव अस्य विषये अन्तिमनिर्णयः क्रियते। शिवसागर–आसनम् राजनैतिकदृष्ट्या अत्यन्तं महत्वपूर्णं मन्यते, यतः अस्मात् आसनात् अद्यतनकाले अखिल–गोगोई विधायकः अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता