Enter your Email Address to subscribe to our newsletters

डिब्रूगढ़म्, 06 मार्चमासः (हि.स.)।
असमराज्यस्य मुख्यमन्त्री डॉ हिमन्तबिस्वसरमा शुक्रवासरे डिब्रूगढ़नगरे भारतीयजनतापक्षस्य एकस्य मण्डलकायालयस्य उद्घाटनम् अकरोत्। अस्मिन् अवसरे दलस्य अनेकाः वरिष्ठनेतारः कार्यकर्तारः समर्थकाश्च उपस्थिताः आसन्।
नव निर्मितं मण्डलकायालयं दलस्य संगठनात्मकगतिविधीनां उपवेशनानां जनसम्पर्ककार्यक्रमाणां च प्रमुखकेन्द्रं भविष्यति। दलनेतारः उक्तवन्तः यत् अनेन मण्डलस्तरे कार्यकर्तृभिः सह उत्तमसमन्वयस्य स्थापना सुलभा भविष्यति तथा संगठनं अधिकं सुदृढं कर्तुं शक्यते।
अस्मिन् अवसरे मुख्यमन्त्री भूमिस्तरे संगठनस्य सशक्तीकरणस्य आवश्यकतां प्रतिपादितवान्। सः अवदत् यत् सुदृढसंगठनस्य माध्यमेन एव जनसेवा तथा शासनस्य योजनाः प्रभावीरीत्या जनतां प्रति प्रापयितुं शक्यन्ते।
दलनेतारः विश्वासं व्यक्तवन्तः यत् डिब्रूघड़े स्थापितं एतत् नूतनं मण्डलकायालयं क्षेत्रे भारतीयजनतापक्षस्य संगठनात्मकगतिविधीनां अधिकं वेगं दास्यति तथा कार्यकर्तॄणां सक्रियसंबद्धतायां महत्वपूर्णां भूमिकां निर्वक्ष्यति।
हिन्दुस्थान समाचार