औषधि–नियन्त्रण–विभागेन २० लक्षाधिक–मूल्यस्य इन्सुलिन–औषधस्य जप्तिः कृता - पंकज–कुमार–सिंहः
नवदिल्ली, ०६ मार्चमासः (हि.स.)।दिल्ली–राज्यस्य औषधि–नियन्त्रण–विभागेन राजधानी–स्थिते थोक–औषधि–विपणौ विशेषम् अनुपालन–अभियानं सञ्चाल्य आहत्य २० लक्षं ६ सहस्रं २४ रूप्यक–मूल्यस्य २१०४ इकाइ–संख्यकं इन्सुलिन–औषधं गृहीतम्। एतत् अभियानं दिल्ली–राज्यस्य स्
दिल्ली के स्वास्थ्य मंत्री डॉ. पंकज कुमार सिंह  (फाइल फोटो)


नवदिल्ली, ०६ मार्चमासः (हि.स.)।दिल्ली–राज्यस्य औषधि–नियन्त्रण–विभागेन राजधानी–स्थिते थोक–औषधि–विपणौ विशेषम् अनुपालन–अभियानं सञ्चाल्य आहत्य २० लक्षं ६ सहस्रं २४ रूप्यक–मूल्यस्य २१०४ इकाइ–संख्यकं इन्सुलिन–औषधं गृहीतम्। एतत् अभियानं दिल्ली–राज्यस्य स्वास्थ्य–मन्त्रिणः डॉ.पंकज–कुमार–सिंहस्य निर्देशानुसारं सञ्चालितम्।

डॉ. पंकज–कुमार–सिंहः अद्य प्रकाशितायां विज्ञप्तौ अवदत् यत् अस्मिन् अभियाने षट् थोक–औषधि–संस्थाः सूक्ष्मतया परीक्षिताः। तासु चतस्रः संस्थाः ड्रग्स-एंड-कोस्मेटिक्-एक्ट-१९४० तथा ड्रग्स-रूल्स, १९४५ इत्यनयोः विधिक–प्रावधानानां उल्लङ्घनं कुर्वन्त्यः दृष्टाः। निरीक्षणे बहु–मात्रायां इन्सुलिन–प्रकाराः प्राप्ताः, येषु ट्रेसिबा-फ्लैक्स-टच-१०० यूनिट प्रति एमएल पेन, ग्लैरिटस १०० यूनिट प्रति एमएल कार्ट्रिज, हूमालोग मिक्स 50 क्विक् पेन, एपिड्रा सोलो स्टार १०० यूनिट प्रति एमएल तथा टोजिओ सोलोस्टार ३०० यूनिट प्रति एमएल इत्यादयः अन्तर्भवन्ति।

किञ्चित् औषध–नमूना: तादृशैः लेबलमाध्यमेन सह प्राप्तानि, येषु “Institutional Supply” इति चिह्नं पूर्वमेव लुप्तं कृतम् आसीत्। सम्बन्धिताः संस्थाः एतेषां औषधानां क्रय–सञ्चय–सम्बद्धं वैध–अभिलेखं सम्यक् रूपेण प्रदर्शयितुं न अशक्नुवन्। अपरं च द्वे संस्थे सामान्य–कक्ष–तापमाने इन्सुलिन–सञ्चयं कुर्वन्त्यः दृष्टे, यत् नियत–भण्डारण–नियमस्य उल्लङ्घनम् अस्ति, यतः एतेषां औषधानां कृते कठोर–शीत–श्रृंखला–व्यवस्था अनिवार्या भवति। अस्य अभियाने आहत्य २० लक्षं ६ सहस्रं २४ रूप्यक–मूल्यस्य २१०४ इकाइ–संख्याकं इन्सुलिन–औषधं जप्तं कृतम्।

स्वास्थ्य–मन्त्री अवदत् यत् जनानां कृते सुरक्षित–गुणवत्तायुक्त–औषधानां उपलब्धता सुनिश्चितं कर्तुं सर्वकारस्य सर्वोच्चा प्राथमिकता अस्ति। रेखा–गुप्ता इत्यस्याः नेतृत्वे सरकारः औषध–सञ्चय–वितरण–व्यवस्थायाः उपरि कठोर–नियामक–निरीक्षणं स्थापयितुं प्रतिबद्धा अस्ति। जीवन–रक्षक–औषधेषु, विशेषतः इन्सुलिन–औषधे, नियम–उल्लङ्घनस्य सन्दर्भे विधिसम्मत–प्रावधानानुसारं कठोर–कार्यवाही क्रियते इति अपि तेन उक्तम्।

निरीक्षणानन्तरं द्वयोः संस्थयोः विरुद्धं Drugs and Cosmetics Act, 1940 तथा Drugs Rules, 1945 इत्ययोः अन्तर्गत–प्रावधानानुसारं प्रकरणं अभिलेखितम्। सह औषध–नमूना: सङ्गृह्य गुणवत्ता–परीक्षणार्थं प्रयोगशालां प्रति प्रेषिता:, येन ता: निर्दिष्ट–मानदण्डान् अनुगच्छन्ति वा न इति सुनिश्चितं कर्तुं शक्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता