Enter your Email Address to subscribe to our newsletters

जयपुरनगरम्, ०६ मार्चमासः (हि.स.)। महिला–शक्ति:, स्वावलम्बनं तथा सामाजिक–नेतृत्वं समर्प्य द्विदिवसीयः ‘माता–पन्नाधाय–नारी–शक्ति–महोत्सवः’ ८ तथा ९ मार्च–दिनाङ्कयोः जवाहर–कला–केन्द्रे (जेकेके) स्थिते शिल्पग्रामे आयोजितः भविष्यति। अस्य आयोजनस्य कृते सज्जताः तीव्रतां गताः सन्ति। शुक्रवासरे निवर्तमान–महापौरा डॉ.सौम्या–गुर्जरः कार्यक्रम–स्थले आयोजन–समित्या सह सभां कृत्वा व्यवस्थाः समीक्षितवती तथा कार्यक्रमस्य अन्तिम–रूपरेखां निश्चितवती। अस्मिन् अवसरे सहस्रशः महिलाः तस्याः नेतृत्वे आह्वानं कृतवन्त्यः तथा नारी–शक्तेः घोषवाक्यानि अपि उच्चारितवन्त्यः।
सेवायाम–संस्थायाः प्रस्तुतेः अन्तर्गतं आयोजितस्य अस्य महोत्सवस्य उद्घाटनं ८ मार्च–दिनाङ्के प्रातः ११ वादने मुख्यमन्त्री भजनलाल–शर्मा करिष्यति। अस्मिन् अवसरे एव मुख्यमन्त्री माता–पन्नाधायाः दश–फुट्–उन्नतायाः प्रतिमायाः अनावरणं अपि करिष्यति। कार्यक्रमे माता–पन्नाधायाः त्यागं राष्ट्रभक्तिं च प्रदर्शयन्ती विशेषा लघु–नाटिका अपि मंचिता भविष्यति।
द्विदिवसीये अस्मिन् महोत्सवे महिला–सशक्तीकरणम्, स्वास्थ्य–संरक्षणम्, आत्मनिर्भरता तथा नेतृत्व–सम्बद्धेषु विषयेषु टॉक–शो, संवाद–सत्राणि, आत्म–रक्षा–प्रशिक्षणम्, सांस्कृतिक–कार्यक्रमाः तथा प्रदर्शिन्य: आयोजिताः भविष्यन्ति। कार्यक्रमस्य अन्तर्गतं ४०० महिला–लघु–उद्यमिन्यः निःशुल्क–स्टॉल–व्यवस्थां प्राप्स्यन्ति, येन ताः स्व–उत्पादान् कौशलं च प्रदर्शयितुं अवसरं प्राप्स्यन्ति।
तथा च ‘शक्ति–कवच–अभियानस्य’ अन्तर्गतं १००० बालिकानां सर्वाइकल–कर्कटरोगात् संरक्षणार्थं निःशुल्क–टीकाकरणं अपि क्रियते। एष: प्रयत्न: बालिकानां स्वास्थ्य–संरक्षणस्य जागरूकतायाश्च दिशि महत्त्वपूर्णः घरण: मन्यते। महोत्सवे देशस्य अनेके प्रमुखाः सामाजिक–सांस्कृतिक–राजनीतिक–व्यक्तित्वस्य सहभागं करिष्यन्ति तथा विविधेषु विषयेषु महिलाभिः सह संवादं करिष्यन्ति।
कार्यक्रमे राज्यपालः हरिभाऊ–बागड़े, राष्ट्रीय–सेविका–समित्याः प्रमुख–कार्यवाहिका वन्दनीया सीता–ताई, अभिनेत्री रवीना–टण्डन, अभिनेत्री ईशा–कोप्पिकर, विधायक–लोकगायिका मैथिली–ठाकुर, तथा राष्ट्रीय–महिला–आयोगस्य अध्यक्षा विजया–राहटकर: विशेष–सत्रेषु सहभागं करिष्यन्ति।
महोत्सव–काले आत्म–रक्षा–शिविरम्, महिला–उद्यमिता–संवादः, ‘महिलाभ्यः कृत्रिम–बुद्धिमत्ता’ इति विषयक–चर्चा, स्वास्थ्य–जागरूकता–सत्राणि तथा सांस्कृतिक–कार्यक्रमाः आयोजिताः भविष्यन्ति। कार्यक्रमस्य समापनं ९ मार्च–दिनाङ्के ‘शक्ति–वन्दन – भारतस्य स्वरस्य अभिनन्दनम्’ इति कार्यक्रमेन भविष्यति, यस्मिन् विविध–क्षेत्रेषु प्रमुखाः व्यक्तयः सहभागं करिष्यन्ति।
निवर्तमान–महापौरा डॉ.सौम्या–गुर्जरः उक्तवती यत् एतत् आयोजनं महिलानां आत्मविश्वासं, स्वास्थ्यं तथा आर्थिक–सशक्तीकरणं वर्धयितुं महत्त्वपूर्णं मंचं भविष्यति। द्वयोः दिनयोः यावत् जवाहर–कला–केन्द्रम् नारी–शक्तेः उत्सवस्य केन्द्रं भविष्यति, यत्र विविध–क्षेत्रेषु प्रेरणादायिन्यः महिलाः स्वानुभवान् सहभागं करिष्यन्ति तथा समाजे सकारात्मक–परिवर्तनस्य दिशि संवादः अपि भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता