Enter your Email Address to subscribe to our newsletters

जम्मूनगरम्, ०६ मार्चमासः (हि.स.) — भारतीय–जनता–युवा–मोर्चा–जम्मू–कश्मीर–प्रदेशाध्यक्षः अरुण–प्रभातः रणजी–ट्रॉफी–२०२६ विजेतृ–जम्मू–कश्मीर–क्रिकेट–दलस्य द्वौ क्रीडकौ साहिल–शर्मा तथा सुनील–कुमार: इत्येतौ सम्मानितवान्।
पटोली–ब्राह्मणा–जम्मू–निवासी साहिलः, यः विजय–कुमार–शर्मणः पुत्रः अस्ति, दलस्य ऐतिहासिक–विजये तस्य महत्त्वपूर्ण–योगदानस्य कारणेन सम्मानितः। तथैव अखनूर–क्षेत्रस्य कठार–ग्राम–निवासी सुनील–कुमारः, यः रामलालस्य पुत्रः अस्ति, रणजी–ट्रॉफी–विजेता–दलस्य सदस्यत्वेन सम्मानितः।
अस्मिन् अवसरे अरुण–प्रभातः उभयोः क्रीडकयो: तथा तयोः परिवारयोः अभिनन्दनं कृत्वा उक्तवान् यत् तयोः परिश्रमः समर्पणं च जम्मू–कश्मीर–प्रदेशस्य यूनां कृते प्रेरणास्रोतः अस्ति।सः अवदत् यत् प्रदेशस्य यूनः क्रीडा–क्षेत्रेण सहितं विविधेषु क्षेत्रेषु स्वप्रतिभां प्रदर्शयन्ति, तथा एतादृशाः उपलब्धयः यूनां आत्मविश्वासं वर्धयन्ति।
अस्मिन् कार्यक्रमे भारतीय–जनता–युवा–मोर्चाया: अनेके पदाधिकारिण: सदस्याश्च उपस्थिताः आसन्, येषु रंजीत–सिंह:, रजत–मनहास:, बलविन्दर–सिंह:, लवदेव–शर्मा, अनिल–भगत: तथा सागर–सिंह–कोतवाल: इत्यादयः सम्मिलिताः आसन्। सर्वे क्रीडकान् अभिनन्द्य तेषां उज्ज्वल–भविष्यस्य कामनां कृतवन्तः।
हिन्दुस्थान समाचार / अंशु गुप्ता