नीट–यूजी २०२६ आवेदन–समयसीमा–विस्तारस्य आग्रहः — सकीना–इटू केन्द्रीय–शिक्षा–मन्त्रिणं प्रति पत्रं प्रेषितवती
श्रीनगरम्, ०६ मार्चमासः (हि.स.)। जम्मू–कश्मीर–राज्यस्य स्वास्थ्य–चिकित्सा–शिक्षा, विद्यालय–शिक्षा, उच्च–शिक्षा तथा समाज–कल्याण–मन्त्री शकीना इटो केन्द्रीय–शिक्षा–मन्त्रिणं धर्मेन्द्रप्रधानं प्रति पत्रं प्रेषयित्वा कश्मीर–विभागस्य छात्राणां कठिनताः
सकीना इटू ने केंद्रीय शिक्षा मंत्री को पत्र लिखकर नीट - यूजी 2026 आवेदन की समय सीमा बढ़ाने की मांग की


श्रीनगरम्, ०६ मार्चमासः (हि.स.)। जम्मू–कश्मीर–राज्यस्य स्वास्थ्य–चिकित्सा–शिक्षा, विद्यालय–शिक्षा, उच्च–शिक्षा तथा समाज–कल्याण–मन्त्री शकीना इटो केन्द्रीय–शिक्षा–मन्त्रिणं धर्मेन्द्रप्रधानं प्रति पत्रं प्रेषयित्वा कश्मीर–विभागस्य छात्राणां कठिनताः दृष्ट्वा नीट–यूजी २०२६ परीक्षायाः आवेदन–समयसीमायाः विस्तारस्य आग्रहं कृतवती।

केन्द्रीय–मन्त्रिणं सम्बोध्य लिखिते पत्रे सा अवदत् यत् जम्मू–कश्मीर–राज्ये, विशेषतः कश्मीर–विभागस्य अनेके छात्राः कतिपयेषु क्षेत्रेषु केवलं 2G–वेगेन सीमित–अन्तर्जाल–संयोजन–नियमस्य कारणेन स्व–ऑनलाइन–आवेदन–प्रेषणे महत्वपूर्णाः कठिनताः अनुभवन्ति।

तया उक्तं यत् मन्द–अन्तर्जाल–संयोजनस्य कारणेन अभ्यर्थिनां कृते तान्त्रिक–बाधाः उत्पद्यन्ते। तासु ओटीपी–सत्यापन–समस्या, कर्गद–अपलोड–विघ्नाः तथा निर्दिष्ट–समयसीमायां ऑनलाइन–आवेदन–प्रक्रियायाः समापनस्य विलम्बः इत्यादयः अन्तर्भवन्ति। मन्त्री अपि अवदत् यत् चिकित्साशिक्षां तथा सम्बद्ध–पाठ्यक्रमान् अनुसर्तुम् इच्छुकानां छात्राणां कृते नीट–यूजी अतीव महत्वपूर्णा परीक्षा अस्ति। अतः संयोजन–समस्याभ्यः कारणात् यदि कश्चित् छात्रः आवेदनं कर्तुं न शक्नोति तर्हि तस्य शैक्षणिक–भविष्ये प्रतिकूलः प्रभावः भवितुम् अर्हति।

सकीना–इटू अपि उक्तवती यत् बहुसंख्यकाः छात्राः, विशेषतः दूरवर्ती–ग्रामीण–क्षेत्रेषु निवसन्तः, अन्त्रजाल–आवेदन–पटलस्य उपयोगाय स्थिर–अन्तर्जाल–सेवायाः उपरि आश्रिताः सन्ति।छात्रैः उत्थापितानां वास्तविक–चिन्तानां परिगणनां कृत्वा सा शिक्षा–मन्त्रालयं प्रति अनुरोधं कृतवती यत् नीट–यूजी २०२६ आवेदन–प्रेषणस्य अन्तिम–तिथिः विस्तारितव्याः, येन जम्मू–कश्मीर–राज्यस्य सर्वे पात्राः अभ्यर्थिनः आवेदनं कर्तुं समुचितम् अवसरं प्राप्नुयुः। मन्त्री आशां व्यक्तवती यत् केन्द्रीय–मन्त्रालयः छात्रहिताय अस्य अनुरोधस्य सहानुभूतिपूर्वकं विचारं करिष्यति तथा एतत् सुनिश्चितं करिष्यति यत् कश्चन अभ्यर्थी तान्त्रिक–अथवा संयोजन–समस्याभ्यः कारणात् अवसरात् वञ्चितः न भवेत्।

हिन्दुस्थान समाचार / अंशु गुप्ता