Enter your Email Address to subscribe to our newsletters

जयपुरम्, 06 मार्चमासः (हि.स.)।
राजस्थानराज्यस्य नगरीयक्षेत्रेषु सञ्चालितानि आयुष्मानआरोग्यमन्दिराणि अधुना द्विवारं उद्घाटितानि भविष्यन्ति। एतेषु केन्द्रेषु कासः, शीतज्वरः, ज्वरः तथा अन्यासां सामान्यरोगाणां रोगिणां कृते प्रातःकालेन सह सायंकाले अपि ओपीडी सेवा सञ्चालिता भविष्यति। अस्मिन् विषये नेशनल हेल्थ मिशन संस्थया आदेशाः निर्गताः।
निदेशकः डॉ सुशीलकुमारपरमार उक्तवान् यत् नगरीय आयुष्मानआरोग्यमन्दिराणां समये परिवर्तनं कृतम्। नवीनादेशानुसारं ग्रीष्मऋतौ एक अप्रैलदिनाङ्कात् त्रिंशत् सेप्टेम्बरदिनाङ्कपर्यन्तं ओपीडी सेवा प्रातः अष्टवादनात् मध्याह्नद्वादशवादनपर्यन्तं तथा सायं पञ्चवादनात् सप्तवादनपर्यन्तं सञ्चालिता भविष्यति।
एवमेव शिशिरऋतौ एक अक्टूबरदिनाङ्कात् एकत्रिंशत् मार्चदिनाङ्कपर्यन्तं ओपीडी समयः प्रातः नववादनात् मध्याह्न एकवादनपर्यन्तं तथा सायं चतुर्वादनात् षड्वादनपर्यन्तं भविष्यति। रविवासरे राजकीयावकाशदिने च उभयोः ऋतुषु एते चिकित्सालयाः प्रातः नववादनात् एकादशवादनपर्यन्तं एकवारमेव सञ्चालिताः भविष्यन्ति। एषा व्यवस्था षष्ठमार्चदिनाङ्कात् समग्रे प्रदेशे प्रवर्तिता।
अधुना सामान्यजनानां कृते प्रातःकालेन सह सायंकाले अपि एतेषु केन्द्रेषु चिकित्सकं दर्शयितुं सुविधा उपलब्धा भविष्यति। वर्तमानकाले पीएचसी, सीएचसी तथा अन्येषां राजकीयचिकित्सालयानामिव नगरीय आयुष्मानआरोग्यमन्दिराणि अपि केवलं एकस्मिन्नेव समये सञ्चालितानि आसन्।
---------------
हिन्दुस्थान समाचार