Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, ०७ मार्चमासः (हि.स.)। भारतीय–जनता–पक्षस्य परिवर्तन–यात्रा पश्चिम–बङ्गाल–राज्यस्य विविधेषु भागेषु निरन्तरं प्रसरति तथा अनेकस्थलेषु तस्यै व्यापकः जनसमर्थनः प्राप्यते। भाजपा–नेतारः वदन्ति यत् राज्यस्य जनताः भ्रष्टाचारस्य, कुप्रशासनस्य तथा तृणमूल–काङ्ग्रेस–सरकारस्य नीतिषु विरुद्धं एकत्रिताः भूत्वा परिवर्तनस्य आग्रहं कुर्वन्ति।
मेदिनीपुर–क्षेत्रे आयोजिते कार्यक्रमे भाजपा–प्रदेशाध्यक्षः शमिक–भट्टाचार्यः राज्य–सरकारस्य आलोचनां कृतवान्। सः अवदत् यत् मुख्यमन्त्री ममता–बनर्जी वाम–शासन–काले निर्मितस्य भय–परिवेशस्य अन्तं कर्तुं प्रतिज्ञां कृतवती आसीत्, किन्तु अद्य पश्चिम–बङ्गाल–राज्ये जनाः पुनः असुरक्षित–परिवेशे जीवनं यापयन्ति। सः पाइकपाडा–क्षेत्रे जातस्य बम–विस्फोट–घटनायाः उल्लेखं कृत्वा राज्यस्य न्याय–व्यवस्थायाः विषये प्रश्नान् उत्थापितवान्।
भट्टाचार्यः आरोपं कृतवान् यत् राज्ये भ्रष्टाचारः एतावत् वर्धितः यत् महाविद्यालयेषु नियुक्त्यर्थम् अपि धनस्य आग्रहः क्रियते। सः अवदत् यत् यदा बेरोजगार–युवानः रोजगारस्य अपेक्षां कुर्वन्ति, तदा तृणमूल–काङ्ग्रेस–सर्वकारः रोजगार–सृजनस्य स्थाने भत्ता–राजनीतिं करोति।
सः अपि अवदत् यत् मेदिनीपुर–भूमिः महानां विभूतिनां जन्मभूमिः आसीत्, यत्र ईश्वरचन्द्र–विद्यासागरः, मातंगिनी–हाजरा तथा खुदीराम–बोस–इत्यादयः महानुभावाः जाताः। किन्तु वर्तमान–शासने राज्ये औद्योगिक–विकासस्य सम्भावनाः दुर्बलाः दृश्यन्ते।
भट्टाचार्यः तृणमूल–काङ्ग्रेसं “अस्वीकारिता” राजनैतिक–शक्तिरूपेण निर्दिश्य अवदत् यत् एष: पक्ष: लोकतन्त्र–पुनर्स्थापनस्य भयमुक्त–समाजस्य च वचनं दत्त्वा सत्तां प्राप्तवान्, किन्तु अद्य राज्यं तादृशीं स्थितिं प्राप्तुम् अस्ति यत्र जनानां मूल–अधिकाराणाम् उल्लङ्घनं दृश्यते। सः मतदाता–सूच्यां कथितानियमिततायाः अपि आरोपं कृतवान्।
दक्षिण–दिनाजपुर–जनपदे आयोजिते कार्यक्रमे केन्द्रीय–मन्त्री सुकान्त–मजूमदारः, सांसदः खगेन–मुर्मू, कार्तिक–पालः तथा विधायकः बुढराय–टुडू इत्यादयः बहवः भाजपा–नेतारः कार्यकर्तारश्च उपस्थिताः आसन्। अस्मिन् अवसरे सुकान्त–मजूमदारः अवदत् यत् भाजपा–कार्यकर्तारः तीव्रे तापेऽपि कार्यक्रमस्य सफलतायै प्रयत्नं कुर्वन्ति। यदि एषः कार्यक्रमः तृणमूल–काङ्ग्रेसस्य आसीत्, तर्हि जनसमागमाय बिर्यानी–पुटकानां वितरणम् आवश्यकं स्यात् इति तेन व्यङ्ग्येन उक्तम्।
मजूमदारः अवदत् यत् भाजपा पश्चिम–बङ्गाले आजीविका–सृजनाय, स्वास्थ्य–सेवायाः आधार–संरचनां सुदृढीकर्तुं तथा राज्यं विविध–आह्वानेभ्यः सुरक्षितं कर्तुं प्रतिबद्ध: अस्ति। सः मुख्यमन्त्रिणः ममता–बनर्जी–इत्यस्याः धरना–आन्दोलनस्य अपि आलोचनां कृत्वा अवदत् यत् सा पुनः विपक्ष–नेत्री भवितुं सज्जा इव दृश्यते।
तेन अपि उक्तं यत् यदि पश्चिम–बङ्गाले भाजपा–सर्वकारः स्थाप्यते तर्हि आरक्षक–कर्मचारिणां, शिक्षकाणां तथा अन्येषां सर्वकारी–कर्मचारिणां कृते सप्तम–वेतन–आयोगस्य अनुप्रयोगः करिष्यते। अपि च २०२६ वर्षस्य दिसम्बर–मासपर्यन्तं सर्वाणि रिक्त–सर्वकारी–पदानि पूरयिष्यन्ति तथा दक्षिण–दिनाजपुर–जनपदे चिकित्साशास्त्र–महाविद्यालयस्य स्थापना अपि करिष्यन्ति।
मंगलकोट–विधानसभा–क्षेत्रे आयोजिते कार्यक्रमे विधानसभा–विपक्ष–नेता शुभेन्दु–अधिकारी तृणमूल–काङ्ग्रेस–सर्वकारं भ्रष्टाचार–तुष्टिकरण–राजनीत्याः माध्यमेन राज्यं पतन–मार्गं नयति इति आरोपं कृतवान्। तेन उक्तं यत् केन्द्र–सर्वकारेण पश्चिम–बङ्गाल–राज्याय दश–लक्ष–कोटि–रूप्यकाणां अधिका आर्थिक–सहायता प्रदत्ता।
नेतारः अपि उक्तवन्तः यत् यदि भाजपा सत्तायां आगच्छति तर्हि ४५ दिनानां मध्ये महार्घ–भत्ता तथा सप्तम–वेतन–आयोगः कार्यान्वितः भविष्यति, सर्वेषु रिक्त–पदेषु निष्पक्ष–नियुक्तयः करिष्यन्ते तथा नियुक्ति–काण्डेन प्रभावितानां अभ्यर्थिनां कृते आयु–सीमायां पञ्च–वर्षपर्यन्तं शिथिलता दीयते।
नेतारः अवदन् यत् अग्रिम–निर्वाचनं महिलानां सुरक्षा–सम्मानाभ्यां सह सम्बद्धं भविष्यति तथा राज्ये महिलानां कृते सुरक्षित–परिवेशस्य निर्माणार्थं कठोर–पदानि स्वीकरिष्यन्ति।
एतस्मिन् मध्ये हावड़ा–हुगली–क्षेत्रस्य श्रीरामपुर–विधानसभा–क्षेत्रे अपि परिवर्तन–यात्रायै उत्साहपूर्णं जनसमर्थनं प्राप्तम्, यत्र केन्द्रीय–मन्त्री अश्विनी–वैष्णवः रोड–शो–कार्यक्रमे सहभागं कृतवान्।
भाजपा इदं प्रतिपादयति यत् राज्यस्य विभिन्नेषु जनपदेषु परिवर्तन–यात्रायाः अग्रसरणेन सह जनानां सहभागिता समर्थनं च निरन्तरं वर्धते। दलस्य मतम् अस्ति यत् एषा यात्रा विकास–रोजगार–सुरक्षा–लोकतान्त्रिक–मूल्यानां पुनर्स्थापनाय जनतायाः सामूहिक–आकाङ्क्षां प्रकाशयति तथा “विकसित–बङ्गाल”-निर्माणं प्रति दलस्य प्रतिबद्धतां सुदृढं करोति।
हिन्दुस्थान समाचार / अंशु गुप्ता