Enter your Email Address to subscribe to our newsletters

जयपुरम्, 07 मार्चमासः (हि.स.)।
भगवानमहावीरकर्कटरोगचिकित्सालयेन तथा इण्डियनमस्क्यूलोस्केलेटलऑन्कोलॉजीसोसाइटी इत्येताभ्यां संयुक्ततया सञ्चाल्यमानस्य आईएमएसओएस२०२६ बीएमकॉन इति सम्मेलनस्य उद्घाटनसमारोहः शनिवासरे सम्पन्नः। उद्घाटनसत्रस्य मुख्यातिथिः साउथवेस्टर्नकमाण्डस्य जनरलऑफिसरकमाण्डिङ्गइनचीफ् लेफ्टिनेंटजनरल मंजिन्दरसिंहः आसीत्।
तेन उक्तं यत् भारतीयसेना अनुशासनं ,दायित्वं तथा सामूहिककार्यभावना इत्येतैः मूल्यमूलकैः संचाल्यते, तथा एते एव मूल्याः स्वास्थ्यसेवासु अपि अत्यन्तं आवश्यकाः सन्ति। उत्कृष्टता निरन्तराध्ययनात्, सुदृढव्यवस्थाभ्यः तथा सामूहिककार्येण एव प्राप्यते।
अस्मिन् अवसरे लेफ्टिनेंटजनरल मंजिन्दरसिंहः अवदत् यत् एतादृशाः चिकित्सासम्मेलनाः केवलं शैक्षिककार्यक्रमाः न भवन्ति, अपितु ज्ञानविनिमयस्य स्वास्थ्यसेवायाः भविष्यदिशानिर्धारणस्य च महत्त्वपूर्णं मंचं भवन्ति। समारोहस्य समये तेन भगवानमहावीरकर्कटरोगचिकित्सालयेन सञ्चाल्यमानानां जनकल्याणकारीयोजनानां प्रशंसा कृता, तथा चिकित्सालयेन सञ्चाल्यमाना निःशुल्ककर्कटरोगपरीक्षणयोजना अद्यतनकाले अत्यन्तं महत्त्वपूर्णा इति उक्तम्।
अस्मिन् अवसरे बीएमसीएचस्य अध्यक्षः नवरतनकोठारी, वरिष्ठोपाध्यक्षा अनिलाकोठारी, आईएमएसओएसस्य अध्यक्षः डॉ आशीषगुलिया, बीएमसीएचस्य अधिशासीनिदेशकः डॉ मेजरजनरल एस सी पारीक, आईएमएसओएसस्य सचिवः डॉ आनन्दराजा इत्यादयः देशविदेशेभ्यः आगताः बहवः चिकित्सकाः उपस्थिताः आसन्।
सम्मेलनस्य द्वितीये दिने ऑन्कोलॉजीनर्सिङ्गकॉन्क्लेव इत्यस्य आयोजनं कृतम्, यस्मिन् नर्सिङ्गविशेषज्ञेभ्यः बहवः सत्राः आयोजिताः। अस्य अतिरिक्तं कॉन्ड्रोसारकोमा रोगस्य व्यवस्थापने नूतनप्रवृत्तयः, कठिनपरिस्थितीनां समाधानम् इत्यादिषु विषयेषु पञ्चदशाधिकानि सत्राणि आयोजितानि।
अस्मिन् समये आईएमएसओएस ओरेशन इति कार्यक्रमः अपि सम्पन्नः। चतुर्षु समूहेषु ई पोस्टर प्रस्तुतीकरणस्य आयोजनं कृतम्, यत्र चत्वारिंशदधिकानि पोस्टराणि प्रस्तुतानि। सम्मेलनस्य अन्तर्गतं “रिटर्न टू मैन स्ट्रीम” इति विषयके कार्यशाला अपि आयोजिताभूत्, यस्मिन् राजस्थानप्रदेशात् उत्तरप्रदेशात् च आगताः अस्थिकर्कटरोगविजेतारः तथा तेषां परिवारजनाः विविधेषु सत्रेषु सहभागीभूताः।
विशेषज्ञपैनलसत्रे मनोरोगविशेषज्ञः डॉ ललितबत्रा, मनोवैज्ञानिकः डॉ अनामिकापापरीवाल, समाजसेविके सरोजकोचर तथा शशिगोवील, वरिष्ठपत्रकारः अमितभट्ट, करियरपरामर्शदाता डॉ दीपकसक्सेना इत्यादयः अपि सहभागीभूताः।
भगवानमहावीरकर्कटरोगचिकित्सालये निर्मितस्य राज्यस्य प्रथमस्य अत्याधुनिकदिवसकालीनकीमोथेरेपीकेन्द्रस्य उद्घाटनं लेफ्टिनेंटजनरल मंजिन्दरसिंहः कृतवान्। अस्मिन् अवसरे चिकित्सालयस्य मुख्यविकासाधिकारी डॉ पुनितसिंहः तथा चिकित्सानिदेशिका डॉ गीतांजलिअग्रवालजोशी इत्याभ्यां केन्द्रस्य निरीक्षणं करवितम्।
राज्यस्य एतस्मिन् प्रथमे केन्द्रे अशीतिः कीमोथेरेपी आसनानि तथा आधुनिकतमसुविधाः सन्ति। अत्र कर्कटरोगिणां कृते पूर्वापेक्षया अधिकसुखकरस्थितौ शीघ्रतया कीमोथेरेपी उपचारः दातुं सम्भविष्यति।
---------------
हिन्दुस्थान समाचार