स्वस्थ भारतस्य संकल्पं जन औषधि परियोजना ददाति सार्थकं रूपम् : रेखा गुप्ता
नव दिल्ली, 07 मार्चमासः (हि.स.)। दिल्ली-नगरस्य मुख्यमंत्री रेखागुप्ता उक्तवती यत् मोदी-सरकारस्य “स्वस्थ-भारत” इति संकल्पं अद्य जनऔषधि-परियोजना धरातले सार्थकरूपेण साकारं करोति। केन्द्र-सरकारस्य एषः दूरदर्शी-प्रयत्नः सुनिश्चितं करोति यत् देशस्य कश्
दिल्ली की मुख्यमंत्री रेखा गुप्ता फाइल फोटो


नव दिल्ली, 07 मार्चमासः (हि.स.)।

दिल्ली-नगरस्य मुख्यमंत्री रेखागुप्ता उक्तवती यत् मोदी-सरकारस्य “स्वस्थ-भारत” इति संकल्पं अद्य जनऔषधि-परियोजना धरातले सार्थकरूपेण साकारं करोति। केन्द्र-सरकारस्य एषः दूरदर्शी-प्रयत्नः सुनिश्चितं करोति यत् देशस्य कश्चन अपि नागरिकः, विशेषतः मध्यमवर्गीयाः दरिद्रपरिवाराश्च, आर्थिकाभावात् आवश्यक-चिकित्सायाः वञ्चिताः न स्युः। स्वास्थ्यसेवानां सर्वसुलभत्वं किफायतीकरणं च एव अस्याः योजनायाः मूल-ध्येयम् अस्ति।

मुख्यमंत्री अद्य जनऔषधि-दिवसस्य अवसरः सामाजिक-माध्यमे “एक्स” इत्यस्मिन् स्वलेखने उक्तवती यत् दिल्ल्यां सञ्चाल्यमानानि षट्शताधिकानि (६२०) जनऔषधि-केन्द्राणि अद्य लक्षशः परिवाराणां कृते महान् आधारः अभवन्। उच्च-गुणवत्तायुक्ताः औषधयः न्यूनतम-मूल्ये उपलब्धाः कृत्वा एतानि केन्द्राणि रोगैः सह संघर्षे सहायकानि भवन्ति तथा सामान्यजनानां कठिनार्जित-धनस्य अपि संरक्षणं सुनिश्चितं कुर्वन्ति।

चिकित्साक्षेत्रे आरब्धा एषा सकारात्मक-प्रयत्नस्य समाजस्य अन्तिम-व्यक्तेः पर्यन्तं उत्तम-स्वास्थ्य-अधिकारं प्रापयितुं महत्त्वपूर्णं कार्यं करोति।

------------

हिन्दुस्थान समाचार