Enter your Email Address to subscribe to our newsletters

राँचीनगरम्, ०७ मार्चमास: (हि.स.)।प्रदेश–राजद–दलस्य कार्यकारिण्याः सभा १३ मार्चमासे दलस्य हरमू–मार्ग–स्थिते कार्यालये भविष्यति। अस्य विषये दलस्य प्रवक्त्रा कैलाश–यादवेन प्रेस–विज्ञप्तिः प्रकाशित्य सूचितं यत् कार्यकारिण्याः अस्यां सभायां दलस्य संघटनस्य पंचायत–स्तरे सुदृढीकरणम्, प्रदेश–तथा–जनपद–स्तरीयानां आगामी–रणनैतिक–कार्यक्रमाणां विषये चर्चा भविष्यति।
सभायां दल–कोटायाः मन्त्रिणः संजय–प्रसाद–यादवः, दलस्य सर्वे विधायकाः, पूर्व–सांसदाः, पूर्व–विधायकाः, प्रदेश–पदाधिकारिणः अन्ये च नेतारः सहभागं करिष्यन्ति। यादवेन उक्तं यत् १४ मार्चमासे दलस्य कार्यालये इफ्तार–समारोहस्य अपि आयोजनं कृतम् अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता