अंताराष्ट्रियमहिलादिवसः : लैंगिक समानतायां स्वास्थ्ये च कार्यशाला आयोजिता
धर्मशाला, 07 मार्चमासः (हि.स.)। अन्ताराष्ट्रियमहिलादिवसस्य अवसरः महिलानां स्वास्थ्यं, लैङ्गिकसमानता तथा टीबी-एचआईवी इत्यादीनां सार्वजनिकस्वास्थ्य-परिस्थितीनां विषये जागरूकतार्थं कार्यशालायाः आयोजनं कृतम्। अस्य कार्यक्रमस्य मुख्य-अतिथिः काङ्गड़ाज
कार्यशाला के दौरान मौजूद स्वास्थ्य अधिकारी और अन्य।


धर्मशाला, 07 मार्चमासः (हि.स.)।

अन्ताराष्ट्रियमहिलादिवसस्य अवसरः महिलानां स्वास्थ्यं, लैङ्गिकसमानता तथा टीबी-एचआईवी इत्यादीनां सार्वजनिकस्वास्थ्य-परिस्थितीनां विषये जागरूकतार्थं कार्यशालायाः आयोजनं कृतम्। अस्य कार्यक्रमस्य मुख्य-अतिथिः काङ्गड़ाजनपदस्य मुख्यचिकित्साधिकारी डॉ विवेककरोलः आसीत्।

मुख्य-अतिथिः डॉ विवेककरोलः अवदत् यत् अन्ताराष्ट्रियमहिलादिवसः महिलानां अधिकार, सम्मान तथा समान-अवसराणां विषये समाजं जागरूकं कर्तुं महत्त्वपूर्णः अवसरः अस्ति। सः अवदत् यत् स्वास्थ्यक्षेत्रे लैङ्गिकसमानता अत्यन्तं आवश्यकम्, यतः सामाजिक-आर्थिक-सांस्कृतिक-कारणैः बहुषु अवसरषु महिलाभ्यः समये स्वास्थ्यसेवाः न लभ्यन्ते।

तेन उक्तं यत् टीबी (क्षयरोगः) अद्यापि एकः महत्त्वपूर्णः सार्वजनिकस्वास्थ्य-चुनौती अस्ति। बहुषु प्रसङ्गेषु महिलासु क्षयरोगस्य निदानं विलम्बेन भवति, यतः ताः परिवारस्य समाजस्य च उत्तरदायित्वैः स्वस्वास्थ्यसमस्याः उपेक्षन्ति। अनेन रोगः अधिकं गम्भीरः भवितुम् शक्नोति तथा परिवारस्य अन्येषां सदस्याणां स्वास्थ्ये अपि प्रभावं कर्तुं शक्नोति।

अस्मिन् अवसरे जिलास्वास्थ्याधिकारी तथा कार्यक्रमाधिकारी डॉ आर.के. सूदः अवदत् यत् एचआईवी-संक्रमितासु महिलासु क्षयरोगस्य जोखिमः अधिकः भवति, अतः समये परीक्षणमुपचारश्च अत्यन्तं आवश्यकौ स्तः। सः अवदत् यत् गर्भवतीषु महिलासु एचआईवी तथा टीबी इत्ययोः समये स्क्रीनिङ्ग् मातुः शिशोः च स्वास्थ्यरक्षणाय अत्यन्तं महत्त्वपूर्णा अस्ति।

डॉ आर.के. सूदः अवदत् यत् महिलानां स्वास्थ्यं परिवारस्य समाजस्य च स्वास्थ्यस्य आधारः अस्ति। लैङ्गिकसमानता, जागरूकता तथा समये उपचारस्य माध्यमेन वयं टीबी-मुक्त-भारतस्य लक्ष्यं प्राप्तुं दृढानि पदानि स्थापयितुं शक्नुमः।

कार्यक्रमस्य अन्ते काङ्गड़ाजनपदस्य मुख्यचिकित्साधिकारीणाऽ “भेदभाव न चलेगा” इति जागरूकतासामग्री विमोचिता तथा कार्यालयस्य महिला-कर्मचारिण्यः अधिकारिणश्च तेषां उत्कृष्ट-योगदानाय सम्मानिताः।

हिन्दुस्थान समाचार