Enter your Email Address to subscribe to our newsletters

अशोकनगरम्, ०७ मार्चमासः (हि.स.) — मध्यप्रदेशस्य अशोकनगर–जनपदसृय बहादुरपुर–तहसीले जसैया–ग्रामपञ्चायतस्य कानीखेडी–ग्रामे स्थिते प्रसिद्धे करीला–धाम्नि मातुः जानकी–देव्याः मन्दिरे रंगपञ्चमी–अवसरे आयोजितः त्रिदिवसीयः वार्षिकः करीला–मेलापक: शनिवासरे प्रारब्धः। अयं मेलापक: ०९ मार्चपर्यन्तं प्रवर्तिष्यते।
मेलापकस्य प्रथमदिने शतशः श्रद्धालवः करीला–धामं प्राप्य मातुः जानकी–देव्याः दर्शनं कृत्वा आशीर्वादं प्रार्थितवन्तः। अनेकैः श्रद्धालुभिः स्व–मनोकामनाः अपि निवेदिताः। मनोकामना–पूर्तेः अनन्तरं श्रद्धालवः करीला–धाम्नि नृत्याङ्गनाभिः शुभकामना–नृत्यं अपि आयोजितवन्तः।
जनपदप्रशासनेन मेलापकं आगच्छतां श्रद्धालूनां कृते सर्वाः आवश्यक–व्यवस्थाः सुनिश्चिताः कृताः। मेलाक्षेत्रे सुगम–आवागमनार्थं पार्किंग–व्यवस्था, विद्युत्–व्यवस्था, सीसीटीवी–निरीक्षणं, सुरक्षा–प्रबन्धः, पेयजल–सुविधा च सुदृढीकृताः। परिक्रमा–मार्गः, दर्शन–व्यवस्था, चिकित्सा–सुविधा च अपि सम्यक् रूपेण व्यवस्थापिता। मेलाक्षेत्रे विविधाः व्यापार–आपणा:, विशाल–दोलनम्, स्वादिष्ट–भोजन–पदार्थानां विक्रय–केन्द्राणि च स्थापितानि, येन सम्पूर्णं वातावरणं उत्सवमयम् अभवत्।
सिन्धिया–प्रयत्नेन बीना–गुना-मध्ये विशेष–रेलयानम्
करीला–मेलापकं प्रति आगच्छतां श्रद्धालूनां सुविधां दृष्ट्वा केंद्रीय–सञ्चार–पूर्वोत्तर–क्षेत्र–विकास–मन्त्री तथा स्थानीय–सांसदः ज्योतिरादित्य–सिन्धिया–प्रयत्नेन भारतीय–रेलविभागेन बीना–गुना-मध्ये विशेष–रेलयानस्य सञ्चालनस्य निर्णयः कृतः।
श्रद्धालूनां वर्धमान–संख्यां तथा यात्रायां सम्भावित–असुविधां दृष्ट्वा मन्त्री सिन्धिया इत्यनेश रेलमन्त्रिणे अश्विनी–वैष्णवाय पत्रं लिखित्वा विशेष–अनुरोधः कृतः। ततः रेलमन्त्रालयेन त्वरित–निर्णयं कृत्वा ०७ मार्चतः ०९ मार्चपर्यन्तं बीना–गुना मार्गे मेला–विशेष–रेलयानस्य सञ्चालनं स्वीकृतम्।
रेलविभागस्य कार्यक्रमानुसारं एतत् विशेष–रेलयानं बीना–अशोकनगर–गुना मार्गे सञ्चालितम् भविष्यति। एतत् रेलयानं अपराह्णे १ वादने बीना–नगरात् प्रस्थास्यति। एतेन श्रद्धालूनां यात्रा अधिका सुगमा सुरक्षिताः च भविष्यति।
उल्लेखनीयम् यत् प्रतिवर्षं करीला–माता–धाम्नि आयोजिते अस्मिन् मेलापके मध्यप्रदेशसहित देशस्य विविध–राज्येभ्यः लक्षशः श्रद्धालवः दर्शनार्थं आगच्छन्ति। मन्त्री ज्योतिरादित्य–सिन्धिया अस्य जनहितकारी–निर्णयस्य कृते रेलमन्त्रालयस्य आभारं व्यक्तवान् तथा सर्वेभ्यः श्रद्धालुभ्यः करीला–मेलापकस्य शुभाशयाः अपि प्रदत्तवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता