बिलासपुरे अद्यारभ्य राज्य स्तरीय कोसा एवं सूती हथकरघा वस्त्र प्रदर्शनी
बिलासपुरम्,08 मार्चमासः (हि.स.)। छत्तीसगढ़ शासनस्य ग्रामोद्योगविभागस्य अन्तर्गतं संचालक हथकरघा विभागस्य सौजन्येन जिला हथकरघा कार्यालय बिलासपुर द्वारा राज्यस्तरीया कोसा तथा कॉटन ऑफ छत्तीसगढ़ हथकरघा वस्त्र प्रदर्शनी सह विक्रय इत्यस्य आयोजनम् अद्य
हथकरघा वस्त्र प्रदर्शनी,फाइल फोटो


बिलासपुरम्,08 मार्चमासः (हि.स.)।

छत्तीसगढ़ शासनस्य ग्रामोद्योगविभागस्य अन्तर्गतं संचालक हथकरघा विभागस्य सौजन्येन जिला हथकरघा कार्यालय बिलासपुर द्वारा राज्यस्तरीया कोसा तथा कॉटन ऑफ छत्तीसगढ़ हथकरघा वस्त्र प्रदर्शनी सह विक्रय इत्यस्य आयोजनम् अद्य रविवासरात् आरभ्य 15 मार्च 2026 पर्यन्तं राघवेन्द्रराव सभाभवन समीपे कंपनी गार्डन, बिलासपुर नगरे क्रियते। प्रदर्शनीयाः शुभारम्भः अद्य सायं चत्वारिवादने नगरनिगम बिलासपुरस्य महापौरा पूजा विधानी दीपप्रज्वलनं कृत्वा करिष्यति।

अस्यां प्रदर्शन्यां छत्तीसगढ़प्रदेशस्य पारम्परिकाणां हथकरघावस्त्राणां उत्कृष्टकारीगरी तथा विविधवस्तुपदार्थानां प्रदर्शनं भविष्यति। अस्य आयोजनस्य मुख्यम् उद्देश्यं प्रदेशस्य हथकरघाबुनकराणां उत्पादानां विपणनाय उत्तममञ्चप्रदानं तथा सामान्यजनान् पारम्परिकहथकरघावस्त्रैः सह प्रत्यक्षतया संयोजयितुम् अस्ति। अनेन उपभोक्तृणां परामर्शानुसारं नूतनरचनानां विकासः अपि प्रोत्साहितः भविष्यति। तेन सह बुनकराणां जीविकावसराणां वृद्धिः तथा महिलानां आर्थिकसशक्तिकरणस्य अपि संवर्धनं भविष्यति।

अस्यां प्रदर्शनीयां रायगढ़, जांजगीर चांपा, बिलासपुर, चंद्रपुर, धुरी, सिवनी, रामटेला, लोफंदी, बिलाईगढ़ तथा सोमाडिह इत्यादिषु कोसा तथा सूतीवस्त्रउत्पादकक्षेत्रेषु स्थितानां बुनकरसमितीनां प्रतिनिधयः सहभागी भविष्यन्ति। प्रदर्शनीयां उत्कृष्टाः कोसासाड़्यः, कोसामलमलवस्त्राणि, कोसाड्रेसमटेरियल्, कोसासलवारसूट्, कोसाबाफ्टा, सूतीसाड़्यः, कॉटन सूटिंग शर्टिंग, दुपट्टाः, बेडशीट्, बेडकवर्, पिलो कवर्, टॉवेल्, नेपकिन् तथा गमछा इत्यादयः विविधाः आकर्षकवस्त्रपदार्थाः उपलब्धाः भविष्यन्ति।

प्रदर्शनीयाः नोडलाधिकारी तथा उपसंचालक हथकरघा बिलासपुर डी धकाते उक्तवान् यत् एषा प्रदर्शनी अद्य आरभ्य 15 मार्च 2026 पर्यन्तं प्रतिदिनं प्रातः 11 वादनात् रात्रौ 10 वादनपर्यन्तं सामान्यजनानां कृते उद्घाटा भविष्यति। तेन नागरिकेभ्यः आह्वानं कृतम् यत् ते प्रदर्शनीयां उपस्थित्य छत्तीसगढ़प्रदेशस्य पारम्परिकबुनाईकलां हस्तनिर्मितवस्त्राणि च अवलोक्य बुनकरजनान् प्रोत्साहयन्तु।

हिन्दुस्थान समाचार