रीवाः विश्व महिला दिवसे अद्य विशेषेण ग्राम सभानाम्आयोजनम्
रीवा, 08 मार्चमासः (हि.स.)। मध्यप्रदेशस्य रीवा जनपदे अद्य रविवासरे विश्वमहिला दिवस अवसरे सर्वासु ग्रामपञ्चायतेषु विशेषग्रामसभानाम् आयोजनं क्रियते। अस्य विषये जिला पञ्चायतस्य मुख्यकार्यपालनाधिकारी मेहताबसिंह गुर्जर उक्तवान् यत् विशेषग्रामसभायां ब
अंतरराष्ट्रीय महिला दिवस (प्रतीकात्मक)


रीवा, 08 मार्चमासः (हि.स.)।

मध्यप्रदेशस्य रीवा जनपदे अद्य रविवासरे विश्वमहिला दिवस अवसरे सर्वासु ग्रामपञ्चायतेषु विशेषग्रामसभानाम् आयोजनं क्रियते।

अस्य विषये जिला पञ्चायतस्य मुख्यकार्यपालनाधिकारी मेहताबसिंह गुर्जर उक्तवान् यत् विशेषग्रामसभायां बालविवाहनिवारणस्य शपथग्रहणं करिष्यते। आङ्गनवाडीकेन्द्रेभ्यः पोषणाहारवितरणम्, पॉक्सो अधिनियमः, स्पॉन्सरशिप योजना तथा च महिला बालकल्याणसम्बद्धाः प्रस्तावाः कार्यसूच्याम् समावेश्यन्ते। ग्रामसभायां रक्ताल्पताग्रस्तानां महिलानां किशोरीणां च उपचारः, स्वच्छता, क्षयरोगउन्मूलनम्, खसरारोगनिवारणसम्बद्धाः विषयाः अपि चर्चायाम् भविष्यन्ति।

तेन उक्तं यत् ग्रामसभायां कार्यबलस्य अन्तर्गतं महिलाश्रमिकाणां सहभागिता वर्धयितुं, सम्बल योजनायां पंजीकरणम्, पीएम श्रमयोगी मानधन योजनायां च पंजीकरणसम्बद्धा सूचना प्रदास्यते। ग्रामसभायां एक बगिया माँ के नाम योजना, मनरेगा माध्यमेन महिलाश्रमिकाणां रोजगारावसरप्रदानम्, वीबी जीरामजी अधिनियम 2025, महिलासशक्तिकरणम्, डिजिटल सुरक्षा तथा प्रधानमंत्री आवास योजना इत्यादीनां विषयेषु प्रस्तावाः प्रस्तूयन्ते।

मुख्यकार्यपालनाधिकारी उक्तवान् यत् जनपदस्य मुख्यकार्यपालनाधिकारी प्रत्येकग्रामसभायै नोडलाधिकारीं नियुक्त्वा शासननिर्देशानुसारं विश्वमहिला दिवसस्य अवसरि विशेषग्रामसभानां आयोजनं करिष्यन्ति। ग्रामसभायाः आयोजनानन्तरं प्रतिवेदनं जिला पञ्चायत कार्यालये अनिवार्यतया प्रस्तुतव्यम्। विशेषग्रामसभायां उत्तमकार्यं कृतवत्यः महिलाः तथा महिला स्वसहायता समूहाः सम्मानिताः भविष्यन्ति।

हिन्दुस्थान समाचार