Enter your Email Address to subscribe to our newsletters

पटना, 08 मार्चमासः (हि.स.)।
मुख्यमन्त्री नीतीश कुमारोऽद्य ५४२ कोटिरूप्यकव्ययेन निर्मीयमाणस्य बिहारसंग्रहालयं पटना संग्रहालयं च संयोजयितुं नियोजितस्य भूमिगतमार्गस्य उद्घाटनं कृत्वा कार्यारम्भं कृतवान्। मुख्यमन्त्री निर्माणकार्ये प्रयुज्यमानस्य यन्त्रस्य बटनं दाबित्वा कार्यस्य प्रारम्भं कारितवान्। अस्मिन् अवसरि अधिकारिणः मुख्यमन्त्रिणे सुरङ्गानिर्माणस्य प्रक्रिया तथा तस्य समापनसम्बद्धा विस्तृता जानकारीम् अददुः। नेहरू पथस्य समीपे हड़ताली मोड़ इति स्थले निर्मीयमाणस्य म्यूज़ियम सबवे सुरङ्गस्य कार्यारम्भसमये मुख्यमन्त्री अधिकारिणः निर्देशं दत्तवान् यत् निर्माणकार्यं उत्तमरीत्या शीघ्रं सम्पन्नं भवेत् इति विशेषतया ध्यानं ददातु। अस्य निर्माणात् बिहारसंग्रहालये पटना संग्रहालये च स्थापितानां प्रदर्शानां अवलोकनं जनाः एकस्मात् स्थनात् अपरं स्थानं सुलभतया गत्वा कर्तुं शक्नुवन्ति। पर्यटकानां संख्या अपि पर्याप्तं वर्धिष्यति, अतः तदनुसारं वाहननिवेशनस्य तथा अन्यानां आवश्यकसुविधानां समुचितव्यवस्था सुनिश्चिततां कर्तुं निर्देशितम्। सः अपि उक्तवान् यत् सुरङ्गानिर्माणं तादृशेन प्रकारेण क्रियताम् येन नेहरू पथे आवागमने किञ्चित् अपि क्लेशः न जायेत।
अनन्तरं मुख्यमन्त्री बिहारसंग्रहालयस्य परिभ्रमणं कृतवान्। अस्मिन् समये बिहारसंग्रहालयस्य महानिदेशकः अंजनी कुमार सिंह संग्रहालयपरिसरे स्थापितानां नूतनप्रदर्शानां, पर्यटकानां संख्यायाः, वाहननिवेशनव्यवस्थायाः, संग्रहालयपरिसरे उपलब्धानां सुविधानां च विषये मुख्यमन्त्रिणे विस्तृतां जानकारीम् अदात्। परिभ्रमणकाले मुख्यमन्त्री अधिकारिभ्यः आवश्यकान् निर्देशान् अपि दत्तवान्।
मुख्यमन्त्री बिहारसंग्रहालयस्य अग्रभागे पुनर्विकासार्थं निर्मीयमाणानां षष्टिः आवासानां तथा ऑफिसर्स हॉस्टल परिसरस्य उद्यानस्य च निर्माणकार्यविषये जानकारीं प्राप्तवान् तथा स्थले निरीक्षणं कृतवान्। साइट् योजना द्वारा अधिकारिणः मुख्यमन्त्रिणे अवदन् यत् अत्र बहुमञ्जिलभवनस्य निर्माणं भविष्यति। अस्मिन् नवपरिसरे सौरऊर्जया चालितः वाहनस्थापनफलकं, मुक्त वाहनस्थापनव्यवस्था, क्लब हाउस इत्यादीनां सुविधानां व्यवस्था सुनिश्चितीक्रियते। अत्र पर्याप्तं वाहननिवेशनस्थानम् अपि भविष्यति। निरीक्षणकाले मुख्यमन्त्री अधिकारिणः निर्देशं दत्तवान् यत् अस्य कार्यस्य प्रगति शीघ्रतया क्रियताम्। अस्माकं मनसि पूर्वमेव एषा इच्छा आसीत् यत् पुरातनसंरचनां अपाकृत्य तस्य स्थाने बहुमञ्जिलभवनं निर्मीयेत, यत् सर्वप्रकारेण आवश्यकसुविधाभिः समन्वितं भवेत्। नेहरू पथस्य पार्श्वे अस्य बहुमञ्जिलभवनस्य निर्माणेन आवासनव्यवस्था उत्तमा भविष्यति। तस्य समीपे सुन्दररीत्या उद्यानस्य निर्माणं अपि क्रियताम् येन संग्रहालयदर्शकाः तस्य आनन्दं अपि अनुभवन्तु।
अनन्तरं मुख्यमन्त्री बिहारसंग्रहालयं पटना संग्रहालयं च संयोजयन्त्याः सुरङ्गायाः पटना संग्रहालयपार्श्वस्थितस्य अन्तस्य अपि स्थलनिरीक्षणं कृत्वा अधिकारिभ्यः आवश्यकान् निर्देशान् अददात्।
---------------
हिन्दुस्थान समाचार