अंताराष्ट्रिय महिला दिवसे मुख्यमंत्री नीतीश कुमारः अददात् वर्धापनानि
पटना, 08 मार्चमासः (हि.स.)। अन्ताराष्ट्रियमहिला दिवसस्य अवसरे मुख्यमन्त्री नीतीश कुमार बधाई शुभकामनाः च प्रदत्तवान्। स्वसन्देशे सः उक्तवान् यत् कस्यापि राज्यस्य देशस्य वा विकासे महिलानां योगदानं अत्यन्तं महत्वपूर्णं भवति। तेन उक्तं यत् महिलासशक्ति
अंताराष्ट्रिय महिला दिवसे मुख्यमंत्री नीतीश कुमारः अददात् वर्धापनानि


पटना, 08 मार्चमासः (हि.स.)। अन्ताराष्ट्रियमहिला दिवसस्य अवसरे मुख्यमन्त्री नीतीश कुमार बधाई शुभकामनाः च प्रदत्तवान्। स्वसन्देशे सः उक्तवान् यत् कस्यापि राज्यस्य देशस्य वा विकासे महिलानां योगदानं अत्यन्तं महत्वपूर्णं भवति।

तेन उक्तं यत् महिलासशक्तिकरणस्य, तासां सुरक्षायाः, शिक्षायाः तथा सामाजिकआर्थिकविकासस्य कृते राज्यसरकारः निरन्तरं प्रयत्नशीलः अस्ति।

अन्ताराष्ट्रियमहिला दिवसस्य अवसरे अस्माभिः सर्वैः एषः संकल्पः करणीयः यत् वयं महिलानां उत्थानस्य प्रति सदैव प्रयत्नशीलाः भविष्यामः, येन तासां सामाजिक-आर्थिकविकासः सिध्येत तथा ताभ्यः सुरक्षितं श्रेष्ठं च वातावरणं प्राप्तुं शक्येत।

---------------

हिन्दुस्थान समाचार