Enter your Email Address to subscribe to our newsletters





खड़गपुरम्, 08 मार्चमासः (हि. स.)।जमशेदपुर क्षेत्रस्य सांसदः विद्युत् बरन महतो शनिवासरे सायंकाले राखामाइंसस्थानके रेलयानसंख्या 18477/78 पुरी–योगनगरी ऋषिकेश–पुरी उत्कल एक्सप्रेस इत्यस्य नूतनस्थगनस्य शुभारम्भं कृतवान्। सांसदेन स्थानके हरितध्वजं दर्शयित्वा रेलयानं प्रेषितम्।
अस्मिन् अवसरे स्थानकपरिसरे स्थानीयजनानां रेलयात्रिणां च विशालः समूहः उपस्थितः आसीत्। जनैः अस्य नूतनसुविधायाः उत्साहपूर्वकं स्वागतं कृतम्, येन क्षेत्रस्य यात्रिभ्यः अधुना अस्य महत्त्वपूर्णस्य रेलयानस्य प्रत्यक्षसुविधा प्राप्ता।
कार्यक्रमे खड़गपुर मण्डलस्य एडीआरएम (ऑपरेशन) मनीषा गोयल, वरिष्ठमण्डलवाणिज्यप्रबन्धकः निशान्त कुमार, मण्डलस्य अन्ये अधिकारीणः, डीआरयूसीसी सदस्याः तथा स्थानीयजनप्रतिनिधयः अपि उपस्थिताः आसन्।
अस्मिन् अवसरि सांसदः विद्युत् बरन महतो उक्तवान् यत् रेलयात्रिणां दीर्घकालात् प्रवृत्ता मागणी दृष्ट्वा अस्य रेलयानस्य अत्र स्थगनं सुनिश्चितं कृतम्। तेन उक्तं यत् अनेन समीपवर्तिक्षेत्रेषु निवसतां जनानां दीर्घदूरयात्रायां बहु सुविधा भविष्यति तथा क्षेत्रस्य विकासः अपि प्रवेगं प्राप्स्यति।
रेलाधिकारिभिः अपि उक्तं यत् अस्य नूतनस्थगनस्य कारणेन समीपवर्तिक्षेत्रेषु निवसन्तः यात्रिणः दीर्घदूरयात्रायाः कृते पर्याप्तसुविधां प्राप्स्यन्ति।
---------------
हिन्दुस्थान समाचार