बिप्लब-शुभेंदु-महोदयाभ्यां प्रदत्तम् आश्वासनम् - वङ्गे महिलाः सुरक्षिताः न सन्ति, भाजपा-शासने सुरक्षा आर्थिक-साहाय्यं च भविष्यति
कोलकाता, 09 मार्चमासः (हि.स.)।भारतीयजनतापक्षस्य (भाजपा) परिवर्तनयात्रायाः अवसरे पक्षस्य नेतृभिः पश्चिमवङ्गे महिलासुरक्षायाः विषयं प्रमुखतया उत्थाप्य राज्यसर्वकारस्य उपरि तीक्ष्णः प्रहारः कृतः। दक्षिण २४ परगणा तथा शिलीगुड़ी क्षेत्रेषु आयोजितासु सभास
शुभेंदु अधिकारी


कोलकाता, 09 मार्चमासः (हि.स.)।भारतीयजनतापक्षस्य (भाजपा) परिवर्तनयात्रायाः अवसरे पक्षस्य नेतृभिः पश्चिमवङ्गे महिलासुरक्षायाः विषयं प्रमुखतया उत्थाप्य राज्यसर्वकारस्य उपरि तीक्ष्णः प्रहारः कृतः। दक्षिण २४ परगणा तथा शिलीगुड़ी क्षेत्रेषु आयोजितासु सभासु भाषणं कुर्वद्भिः त्रिपुरायाः पूर्वमुख्यमन्त्रिणा बिप्लबकुमारदेवेन तथा विधानसभायां विपक्षनेतृणा शुभेंदु अधिकारिणा च दावः कृतः यत् वर्तमानशासने महिलाः सुरक्षिताः न सन्ति, भाजपा-सर्वकारस्य निर्माणे सति इयं स्थितिः परिवर्तिष्यते।

​बिप्लबकुमारदेवस्य वक्तव्यम्

​बिप्लबकुमारदेवेन उक्तं यत् पश्चिमवङ्गे भाजपा-सर्वकारे जाते महिलाभ्यः प्रतिमासं त्रिसहस्रं (३०००) रूप्यकाणां वित्तीयसाहाय्यं प्रदास्यते। तेन आरोपः कृतः यत् राज्यसर्वकारः जनतायाः समस्यानां समाधानस्य स्थाने राजनैतिकहितैषु अधिकं रुचिं गृह्णाति। देवेन उक्तं यत् भाजपा स्वामी विवेकानन्द-रवीन्द्रनाथ ठाकुर-सुभाषचन्द्रबोसानाम् आदर्शैः प्रेरितायाः एकस्याः नूतनायाः सुरक्षितवङ्गधरायाः निर्माणं कर्तुम् इच्छति।

​शुभेंदु अधिकारिणः आक्षेपः

​तत्रैव, शिलीगुड़ी-सभायां शुभेंदु अधिकारिणा राज्ये महिलानां विरुद्धं वर्धमानानां घटनानां विषये सर्वकारस्य कार्यप्रणाल्यां प्रश्नाः उत्थापिताः। सः अनेकासां घटनानाम् उल्लेखं कुर्वन् अवदत् यत् वनवासी-महिलानां विरुद्धं हिंसा, हांसखाली-क्षेत्रे अल्पवयस्कायाः कन्यायाः बलात्कारः मृत्युश्च, रामपुरहाट-क्षेत्रे षड्वर्षीयायाः बालिकायाः बलात्कारः तथा तमन्ना खातून इत्यस्याः हत्या सदृशैः प्रकरणैः राज्यस्य विधिव्यवस्थायाः उपरि गम्भीराः प्रश्नाः उद्भूताः।

​शुभेंदु अधिकारिणा आरोपः कृतः यत् भाजपा-पक्षस्य समर्थनकारणात् केषुचित् स्थानेषु वनवासी-महिलाः प्रपीडिताः तथा ताभिः अपमानजनकस्थितीनां सामना कृतः। तेन उक्तं यत् भाजपा सत्तायां आगते सति ईदृशानां अपराधानां दोषिनः प्रति कठोरदण्डः दापयिष्यते पीडितेभ्यः च न्यायः प्रदास्यते।

​केन्द्रयोजनानां उल्लेखः

​तेन उक्तं यत् केन्द्रसर्वकारेण 'स्वच्छ भारत मिशन' अन्तर्गतं महिलानां कृते प्रक्षालनगृहाणां (शौचालयानां) व्यवस्था निश्चिता कृता अस्ति तथा 'प्रधानमंत्री आवास योजना' माध्यमेन पश्चिमवङ्गे लक्षशः परिवारेभ्यः गृहाणि उपलब्धानि कारितानि। तथापि तेन आरोपः कृतः यत् राज्यसर्वकारः अनेकासां केन्द्रीययोजनानां नामानि परिवर्तयितुं तासां श्रेयम् प्राप्तुं च प्रयतते।

​भाजपा-नेतृभिः उक्तं यत् राज्ये परिवर्तनयात्रायाः कृते व्यापकं जनसमर्थनं प्राप्यते, पक्षस्य लक्ष्यं च पश्चिमवङ्गे तादृशस्य सर्वकारस्य स्थापना अस्ति यः महिलानां सुरक्षां, विकासं, सुशासनं च निश्चितं कर्तुं शक्नुयात्।

हिन्दुस्थान समाचार / अंशु गुप्ता