Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 09 मार्चमास: (हि.स.)।सोमवासरे लोकसभायाः कार्यवाही विपक्षीयसदस्यानां पश्चिम-एशियायां प्रवर्तमानस्य सैन्य-संघर्षस्य विषये चर्चां कर्तुं कृतस्य कोलाहलस्य कारणेन द्विवारं स्थगिता भूत्वा अन्ततः मङ्गलवासरे पूर्वाह्णे 11 वादनपर्यन्तं स्थगिता कृता।
पूर्वाह्णे 11 वादने कार्यवाही आरब्धा सति विपक्षीयसदस्याः पश्चिम-एशियायां वर्धमानाया: चिन्ताया:, भारतस्य ऊर्जा-सुरक्षायाः तथा विदेशेषु निवसतां भारतीयानां सुरक्षायाः विषये कोलाहलं कर्तुम् आरब्धवन्तः। तेन कारणेन सदनस्य कार्यवाही 12 वादनपर्यन्तं स्थगिता कृता। अपराह्णे 03 वादने पुनः कार्यवाही आरब्धा, तथापि विपक्षीयसदस्यानां कोलाहल: निरन्तरं प्रवृत्तः। विपक्षेण उक्तं यत् पश्चिम-एशियायां चिन्ताया: भारतस्य ऊर्जा-सुरक्षायाः तथा विदेशेषु निवसतां भारतीयानां उपरि प्रभावः भवितुं शक्नोति, अतः सर्वकारेण स्पष्टं उत्तरं दातव्यम्।
टीएमसी-दलस्य सदस्या महुआ मोइत्रा उद्घोषितेषु पीठासीन-अधिकारी जगदम्बिका पाल: अप्रसन्नः अभवत्। सः विपक्षीयसदस्यान् पुनः पुनः शान्तिं धारयितुं प्रार्थितवान्। तेन उक्तं यत् विदेशमन्त्रिणा स्थितिः पूर्वमेव स्पष्टा कृता अस्ति तथा भारतीयानां सुरक्षायाः ऊर्जा-आपूर्तेः च सम्बन्धे आवश्यकपदानां विषये अपि सूचना दत्ता।
सर्वकारपक्षेण उक्तं यत् विपक्षेण लोकसभाध्यक्षस्य ओमबिरलाया: विरुद्धं अविश्वास-प्रस्तावः प्रस्तुतः अस्ति तथा तस्य विषये चर्चां कर्तुं सदनं सिद्धम् अस्ति। तथापि विपक्षेण अन्यः प्रस्तावः प्रस्तुतः, यस्य विषये विदेशमन्त्री एस.जयशंकरः उत्तरं दत्तवान्। तदनन्तरं निरन्तरं कोलाहलस्य कारणेन सदनस्य कार्यवाही मङ्गलवासरे पूर्वाह्णे 11 वादनपर्यन्तं स्थगिता कृता।एआईएमआईएम-दलस्य असदुद्दीन: ओवैसी इत्यनेन सह अनेके सदस्याः पश्चिम-एशियायाः स्थितेः विषये सर्वकारात् स्पष्टीकरणं याचितवन्तः।
विदेशमन्त्री जयशंकरः प्रथमं राज्यसभायां ततः पश्चात् लोकसभायां स्वं वक्तव्यं दत्तवान्। तेन खाड़ी-देशेभ्यः भारतीयानां प्रत्यागमनस्य तथा ऊर्जा-संकटस्य समाधानार्थं कृतानां सज्जानां विषये सूचना प्रदत्ता। सः अवदत् यत् अस्मिन् समये ईरानी-नेतृत्वेन सह सम्पर्कं कठिनम् अस्ति, तथापि भारतः शान्तेः संवादस्य च समर्थकः अस्ति।
राज्यसभायां तस्य भाषणकाले विपक्षेण वॉकआउट इति कृतम्, यदा तु लोकसभायां विपक्षीयसांसदाः “वी वॉन्ट डिस्कशन” इति उद्घोषयन्तः निरन्तरं कोलाहलं कृतवन्तः। पीठासीन-अधिकारिणा पुनः पुनः निवेदिते अपि विपक्षः शान्तः न अभवत्। अन्ततः निरन्तरस्य कोलाहलस्य कारणेन लोकसभायाः कार्यवाही दिनपर्यन्तं स्थगिता कृता।
हिन्दुस्थान समाचार / Dheeraj Maithani