महिला सुरक्षां प्रति राष्ट्रीय महिला आयोगस्य पुलिस अधिकारिणां चोपवेशनम्
जयपुरम्, 09 मार्चमासः (हि.स.)। अन्ताराष्ट्रियमहिलादिवसस्य अवसरम् उपलक्ष्य सोमवासरे पुलिसमुख्यालये महिलासुरक्षा महिलासम्बद्धापराधानां विषये समीक्षासभा आयोजिता। राष्ट्रियमहिलाआयोगस्य अध्यक्षा विजया रहाटकरस्याः अध्यक्षतायां सम्पन्नायां अस्यां सभायां
महिला सुरक्षा पर राष्ट्रीय महिला आयोग और पुलिस अधिकारियों की बैठक


जयपुरम्, 09 मार्चमासः (हि.स.)।

अन्ताराष्ट्रियमहिलादिवसस्य अवसरम् उपलक्ष्य सोमवासरे पुलिसमुख्यालये महिलासुरक्षा महिलासम्बद्धापराधानां विषये समीक्षासभा आयोजिता। राष्ट्रियमहिलाआयोगस्य अध्यक्षा विजया रहाटकरस्याः अध्यक्षतायां सम्पन्नायां अस्यां सभायां पुलिसमहानिदेशकः राजीवकुमारशर्मा सहिताः वरिष्ठपुलिसाधिकारिणः महिलाअपराधनियन्त्रणार्थं कृतप्रयत्नान् नवाचारान् च विषये चर्चा अकुर्वन्।

रहाटकर उक्तवती यत् नवीनतमाङ्केषु महिलासम्बद्धेषु अपराधेषु किञ्चित् न्यूनता दृष्टा, यत् सकारात्मकसंकेतः अस्ति। केषुचित् प्रकरणेषु तु अभियोगपञ्जीकरणस्य प्रवृत्तेः वृद्धिः अपि दृष्टा, या महिलानां मध्ये जागरूकतायाः आत्मविश्वासस्य च वृद्धेः सूचकः अस्ति। तया साइबरअपराधेषु वित्तीयप्रवञ्चनासम्बन्धे सतर्कनिगराण्याः आवश्यकता अपि निर्दिष्टा।

सभायां राज्यजिलास्तरयोः राष्ट्रियमहिलाआयोगस्य कृते नोडलअधिकारीनियुक्तेः पहलस्य प्रशंसा कृता। रहाटकर आङ्गनवाडी आशाकार्यकर्त्रीणां कृते विधिकप्रशिक्षणं दातुं तथा पुलिसस्थानकेषु स्वयंसेवीसंस्थापरामर्शदातॄणां भूमिकां सुदृढां कर्तुं सुझावम् अदात्।

अस्मिन्नवसरे पुलिसमहानिदेशकः राजीवकुमारशर्मा उक्तवान् यत् महिलानां बालकानां च सुरक्षा शासनस्य सर्वोच्चप्राथमिकता अस्ति। संवेदनशीलप्रकरणानि केसऑफिसरयोजना अन्तर्गतं स्वीकृत्य तेषु शीघ्रकार्यवाही क्रियते। सह जयपुरपुलिसस्य ‘सशक्तनारी जिम्मेदारीहमारी’ अभियानम् अपि महिलासु जागरूकतावृद्धिं करोति।

सभायां सदस्यसचिवः सुदीपजैन, अतिरिक्तमहानिदेशकः नागरिकअधिकारः लतामनोजकुमार, पुलिसअधीक्षकः हर्षवर्धनअग्रवाला तथा यातायातमहानिदेशकः अनिलपालीवाल सहिताः अन्ये अपि वरिष्ठाधिकारिणः उपस्थिताः आसन्। सभायां महिलाअपराधानां स्थितेः तथा लंबितप्रकरणानां विषये पावरप्वाइंटप्रस्तुतिः अपि प्रदर्शिता।

---------------

हिन्दुस्थान समाचार