शीतलाष्टमी बुधवासरे - रांधा-पुआ मंगलवासरे
जयपुरम्, 09 मार्चमासः (हि.स.)।चैत्रमासस्य कृष्णपक्षस्य अष्टमी श्वः बुधवासरे शीतलाष्टमीरूपेण श्रद्धया विश्वासेन च आचरयिष्यते। अस्मात् एकदिनपूर्वं १० मार्च दिनाङ्के परम्परानुसारं ''रांधा पुआ'' (पक्ववान्नं) निर्मास्यते। गृहे-गृहे शीतलामात्रे अर्पयित
शीतला अष्टमी बुधवार को: रांधा पुआ मंगलवार काे


जयपुरम्, 09 मार्चमासः (हि.स.)।चैत्रमासस्य कृष्णपक्षस्य अष्टमी श्वः बुधवासरे शीतलाष्टमीरूपेण श्रद्धया विश्वासेन च आचरयिष्यते। अस्मात् एकदिनपूर्वं १० मार्च दिनाङ्के परम्परानुसारं 'रांधा पुआ' (पक्ववान्नं) निर्मास्यते। गृहे-गृहे शीतलामात्रे अर्पयितुं डझनशः (अनेकानि) व्यञ्जनानि निर्मास्यन्ते, येषु मुङ्गथालं, गुडमिश्रिताः मधुराः तण्डुलाः, प्रियङ्गुः (बाजरा), राबड़ी, दधि, पुआ, पूरिका, हलवा च मुख्याः सन्ति। राजधान्याः सर्वेषु मुख्यविपणेषु चतुष्पथेषु च शीतलाष्टम्या सम्बद्धानां वस्तूनां, विशेषतः मृत्पात्राणां विक्रयणं तीव्रम् अभवत्। महिलाः परिवारस्य सुख-समृद्धये बालानां स्वास्थ्याय च व्रतं धृत्वा शीतलामातुः पूजनं करिष्यन्ति।

​ज्योतिषाचार्यः डॉ. महेन्द्रमिश्रः अवदत् यत् शीतलामातुः पूजनं सप्तमी-अष्टमी इति तिथ्योः उभयोः विविधस्थानेषु क्रियते। पञ्चाङ्गानुसारं चैत्रकृष्णसप्तमी १० मार्च दिनाङ्के अस्ति, परन्तु उदयातिथ्यनुसारं शीतलाष्टम्याः व्रतं ११ मार्च दिनाङ्के रक्षिष्यते। शीतलाष्टम्याः अष्टमी तिथिः १० मार्च दिनाङ्के रात्रौ १:५४ वादने प्रारभ्य १२ मार्च दिनाङ्के प्रातः ४:१९ वादने समाप्ता भविष्यति। ११ मार्च दिनाङ्के प्रातः ६:०३ वादनतः सायङ्काल ५:५६ वादनपर्यन्तं पूजनस्य शुभसमयः भविष्यति।

​उल्लेखनीयं वर्तते यत् शीतलामातुः उल्लेखः स्कन्दपुराणे प्राप्यते। मान्यता अस्ति यत् देवीशीतलायाः आराधनाया शीतला (चेचक), रोमातिका (खसरा) इत्यदिभिः बहुप्रकारकैः सङ्क्रमणैः ऋतुजन्यव्याधिभिः च रक्षा भवति। एतस्मात् कारणात् अस्मिन् दिने एकदिनपूर्वं निर्मितस्य शीतलभोजनस्य नैवेद्यं अर्प्यते। भक्ताः अपि तदेव प्रसादं गृह्णन्ति। अस्मिन् दिने चुल्लिः न प्रज्वाल्यते। चाकसूस्थिते 'शील की डूंगरी' इत्यत्र शीतलामातुः पारम्परिकः मेलापकः भविष्यति।

एतत् पर्व बहुषु स्थानेषु 'बास्योड़ा' इति अपि कथ्यते। राजस्थान-गुजरात-उत्तरप्रदेशराज्येषु एतत् विशेषोत्साहेन मान्यते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता