Enter your Email Address to subscribe to our newsletters

जम्मूः, 09 मार्चमासः (हि.स.)।
भारतीयजनतापक्षः जम्मूकाश्मीरप्रदेशे “पण्डितदीनदयालउपाध्यायप्रशिक्षणमहाअभियान २०२६” इत्यस्य अन्तर्गतं केन्द्रशासितप्रदेशे मण्डलस्तरे कार्यशालानां शृङ्खलां आयोजयति। अस्य उद्देश्यं पक्षकार्यकर्तॄणां संगठनात्मकसंरचनां सुदृढां कर्तुं तथा तेषां वैचारिकप्रशिक्षणं प्रदातुम् अस्ति।
सप्तममार्चदिनाङ्कात् आरभ्य एताः कार्यशालाः विभिन्नेषु मण्डलेषु आयोज्यन्ते। तत्र वरिष्ठपक्षनेतारः, ये शिक्षकरूपेण प्रशिक्षिताः सन्ति, द्विदिवसीयेषु चतुर्विंशतिघण्टापर्यन्तेषु कार्यशालासत्रेषु पक्षकार्यकर्तृभ्यः शिक्षणसत्राणि सञ्चालयन्ति। अस्य अभियानस्य अन्तर्गतं जम्मूकाश्मीरप्रदेशे समग्रतया २५८ कार्यशालाः आयोजयिष्यन्ते।
अस्मिन् प्रसङ्गे पक्षस्य महासचिवः संगठनविभागस्य अशोककौलः रियासीजनपदस्य श्रीमातावैष्णोदेवीविधानसभाक्षेत्रस्य कट्रामण्डले आयोजितां कार्यशालां सम्बोधितवान्। कार्यशालायां पक्षपदाधिकरिणः कार्यकर्तारः च उत्साहपूर्वकं सहभागित्वं कृतवन्तः।
कार्यशालायां पक्षस्य जिलाध्यक्षः रोहितदुबे, श्रीमातावैष्णोदेवीनिर्वाचनक्षेत्रस्य विधायकः बलदेवराजशर्मा, रियासीनिर्वाचनक्षेत्रस्य विधायकः कुलदीपराजदुबे, राज्यकार्यालयस्य सहप्रभारी शीलमगोत्रा, जिलामहासचिवः पवनदेवसिंह, जिलामहासचिवः रमेशशर्मा तथा कट्रामण्डलाध्यक्षः सोहनलालशर्मा सहिताः सर्वेषां सप्तसत्राणां वक्तारः जिलापदाधिकरिणः, मण्डलपदाधिकरिणः, मोर्चाध्यक्षाः, वरिष्ठनेतारः तथा पक्षकार्यकर्तारः उपस्थिताः आसन्।
कार्यशालां सम्बोधयन् अशोककौलः अवदत् यत् पण्डितदीनदयालउपाध्यायप्रशिक्षणमहाअभियानं भूमिस्थरे संगठनस्य अधिकं सुदृढीकरणार्थं पक्षस्य महत्त्वपूर्णा पहल अस्ति। सः उक्तवान् यत् प्रशिक्षणकार्यक्रमाः पक्षकार्यकर्तॄणां वैचारिकस्पष्टतां, संगठनात्मकअनुशासनं, प्रभावीसंवादकौशलं च वर्धयितुं निर्मिताः सन्ति, येन ते जनसामान्यस्य मध्ये अधिककुशलतया कार्यं कर्तुं शक्नुवन्ति।
तेन विशेषतया पण्डितदीनदयालउपाध्यायस्य दर्शनं, विशेषतः अन्त्योदयस्य अवधारणा, भारतीयजनतापक्षस्य मार्गदर्शकसिद्धान्तः इति प्रतिपादितम्। सः कार्यकर्तॄन् प्रेरितवान् यत् ते समाजस्य अन्तिमपुरुषस्य सेवायै स्वयम् समर्पयन्तु। अपि च सः कार्यकर्तॄन् जनतासह सन्निकर्षे स्थितुं तथा शासनस्य विकासपरियोजनाः सक्रियतया प्रचारयितुं प्रोत्साहितवान्।
बलदेवराजशर्मा अवदत् यत् एतादृश्याः कार्यशालाः दृढं अनुशासितं च कार्यकर्तृसमूहं निर्मातुं सहायकाः भवन्ति। सः पक्षकार्यकर्तॄन् पक्षस्य विचारधारां कल्याणकारीनीतयः च प्रत्येकगृहं प्रति प्रसारयितुं आह्वानं कृतवान्।
कुलदीपराजदुबे उक्तवान् यत् लोकतन्त्रस्य सुदृढीकरणाय प्रभावीजनसेवायै च वैचारिकप्रशिक्षणं संगठनात्मकजागरूकता च अत्यावश्यकम्।
रोहितदुबे अपि अवदत् यत् प्रशिक्षणमहाअभियानं कार्यकर्तॄन् अधिकं ऊर्जस्विनः करिष्यति तथा विभिन्नसंगठनस्तरेषु पक्षकार्यकर्तॄणां मध्ये उत्तमं समन्वयं सुनिश्चितं करिष्यति।
एवमेव बहुनिर्वाचनक्षेत्रस्य गान्धीनगरमण्डले, पुंछनिर्वाचनक्षेत्रस्य पुंछनगरभागे तथा कुंटावारायां अपि कार्यशालाः आयोजिताः।
---------------
हिन्दुस्थान समाचार