‘निर्वाचन-केन्द्रितं साङ्ख्यिकीनां च आयव्ययकम्’, विपक्षस्य प्रहारः- धरातले न अवतारिष्यन्ते योजनाः
भराड़ीसैंणं, 09 मार्चमासः (हि.स.)। धामी-सर्वकारेण प्रस्तुते वित्तीयवर्षस्य २०२६-२७ आयव्ययके (बजेट्) विपक्षेण काङ्ग्रेस-दलेन तीक्ष्णा प्रतिक्रिया दत्ता। विपक्षनेतृभिः एतत् साङ्ख्यिकीनां निर्वाचन-केन्द्रितं च आयव्ययकं कथयित्वा उक्तं यत् एतत् धरातले न
नेता प्रतिपक्ष यशलाल आर्य।


भराड़ीसैंणं, 09 मार्चमासः (हि.स.)।

धामी-सर्वकारेण प्रस्तुते वित्तीयवर्षस्य २०२६-२७ आयव्ययके (बजेट्) विपक्षेण काङ्ग्रेस-दलेन तीक्ष्णा प्रतिक्रिया दत्ता। विपक्षनेतृभिः एतत् साङ्ख्यिकीनां निर्वाचन-केन्द्रितं च आयव्ययकं कथयित्वा उक्तं यत् एतत् धरातले न अवतारिष्यति। ‘एतत् केवलं शब्दानां सन्तुलनम् अस्ति, धरातलीय-सत्यता नास्ति।’

​विपक्षनेतुः यशपाल आर्यस्य वक्तव्यम्

​विपक्षनेता यशपाल आर्यः आयव्ययकं 'निर्वाचन-आयव्ययकम्' इति घोषितवान्। तेन उक्तं यत् अस्मिन् आयवृद्धये केऽपि ठोस-प्रावधानाः न सन्ति। सः अवदत् यत् शिक्षा-आधारभूतक्षेत्राणां कृते पर्याप्तं धनं न आवंटितम्। प्रत्येकवर्गस्य प्रत्येकवयसः च उत्थानाय दृढा व्यवस्था भवितव्या आसीत्, या अस्मिन् आयव्ययके न दृश्यते।

​तेन आरोपः कृतः यत् आयवृद्धये कश्चपि सुदृढः आराखडा (खाका) नास्ति। महिलानां, यूनां, शिक्षायाः च उपेक्षां कृत्वा सर्वकारः केवलं 'लोकलुभावन' (लोकप्रियतावादी) राजनीतिं कृतवान्।

​उप-विपक्षनेतुः भुवन कापड़ी-महोदयस्य आक्षेपः

​विपक्षस्य उपनेता भुवन कापड़ी अवदत् यत् आयव्ययके महिला-सशक्तीकरणाय श्रमिकवर्गाय च ठोस-प्रावधानाः न कृताः। ग्रामीण-बेरोजगार-युवकानां कृते 'बेरोजगारी-भत्ता' इति विषये कापि स्पष्टा व्यवस्था न दृश्यते। एतत् केवलं लोकप्रियं भासमानं आयव्ययकम् अस्ति, यत् सर्वकारः धरातले कार्यान्वितं कर्तुं न शक्ष्यति। अन्तिमपङ्क्तौ स्थितां पुत्रीं यावत् प्राप्तुं कापि दृढा योजना न दृश्यते। सः अवदत् यत् एषः आयव्ययकः अन्तिमव्यक्तिं यावत् न प्राप्स्यति।

​विधायक-सुमित-हृदयेशस्य प्रतिक्रिया

​हल्द्वानी-क्षेत्रस्य काङ्ग्रेस-विधायकः सुमित हृदयेशः अवदत् यत् राजकीय-विद्यालयानां दुर्दशां दूरीकर्तुं कोऽपि ठोस-प्रावधानः न दृश्यते। सः आरोपं कृतवान् यत्- “केवलं शब्दावल्यां सन्तुलनं निर्मितम् अस्ति, वास्तविक-सुधारस्य दिशि कापि स्पष्टा योजना नास्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता