Enter your Email Address to subscribe to our newsletters


गैरसैंणम्, 09 मार्चमासः (हि.स.)। उत्तराखण्डविधानसभायाः बजटसत्रं सोमवासरे ग्रीष्मकालीनराजधानी गैरसैंण भराड़ीसैंण मध्ये राज्यपालस्य अभिभाषणेन सह आरब्धम्।
अद्य प्रातः एकादशवादने सत्रस्य शुभारम्भः सदसि वन्दे मातरम् गीतस्य गायनेन कृतः। सदसि सोमवासरे यदा लेफ्टिनेंट जनरल गुरमीत सिंह स्वम् अभिभाषणं पठितुम् आरब्धवान् तदा सदनस्य वातावरणं उष्णम् अभवत्।
प्रतिपक्षनेता यशपाल आर्य सत्रस्य संचालनं संसदीयपरम्पराणाम् अनुसारम् करणीयम् इति आग्रहं कृतवान्। अस्मिन् समये काङ्ग्रेस दलस्य विधायकाः सदनस्य मध्ये वेल क्षेत्रे आगत्य सरकारस्य विरुद्धं नारेभिः घोषणाः कर्तुम् आरब्धवन्तः। घोषणानां मध्ये अपि राज्यपालः स्वम् अभिभाषणं पठन् आसीत्। किञ्चित्कालानन्तरम् प्रतिपक्षस्य सदस्याः विरोधरूपेण राज्यपालस्य अभिभाषणस्य बहिष्कारं कृत्वा सदनात् बहिर्गमनम् अकुर्वन्।
सत्रे धामीसर्वकारः अपराह्णे त्रिवादने आगामिवित्तवर्षस्य 2026 27 वित्तीयं प्रस्तोष्यति। कार्यमन्त्रणा समितेः अनुशंसानुसारम् सत्रस्य अनन्तरदिनेषु मङ्गलवासरे 10 मार्च दिनाङ्के अध्यादेशानां सदने पटलोपस्थापनम् राज्यपालस्य अभिभाषणस्य धन्यवादप्रस्तावे चर्चा तथा विधायीकार्याणि क्रियन्ते।
प्रतिपक्षनेता यशपाल आर्य सोमवासरे विधानसभा मण्डपस्य बहिः कानूनव्यवस्था सहित विविधजनसमस्यासु विषयेषु धरनाप्रदर्शनम् अकरोत्।
ते प्रदेशे वर्धमानाः अपराधघटनाः महिलानां सुरक्षा बेरोजगारी महङ्गता च इत्यादिषु विषयेषु सरकारं आलोच्य उक्तवन्तः यत् कानूनव्यवस्थाया स्थितिः निरन्तरं दुरवस्था गच्छति। तेन आरोपः कृतः यत् सामान्यजनाः असुरक्षिततां अनुभवति तथा सरकारः एतासां समस्याणां समाधानाय पर्याप्तगम्भीरता न दर्शयति।
धरनायाः समये प्रतिपक्षनेता एतत् अपि उक्तवान् यत् सरकारः शीघ्रं कानूनव्यवस्थाया सुधारार्थं दृढानि पदानि गृह्णीयात् पुलिसतन्त्रं सुदृढं कुर्यात् तथा जनहितसम्बद्धविषयेषु स्पष्टकार्ययोजनां प्रस्तुतयेत्।
मुख्यमंत्री पुष्कर सिंह धामी भराड़ीसैंण गैरसैंण मध्ये लेफ्टिनेंट जनरल गुरमीत सिंह सह शिष्टाचारभेटम् अकरोत्। अस्मिन् अवसरे संसदीयकार्य मन्त्री सुबोध उनियाल सहित अन्ये विधायकाः अपि उपस्थिताः आसन्।
हिन्दुस्थान समाचार