उत्तरप्रदेशस्य गाजीपुरस्य आकांक्षा सिंहः 301तमीं श्रेणीमवाप्य  सफलीजाता इयम् अभ्यर्थिनी ः यूपीएससी
नव दिल्ली, 09 मार्चमासः (हि.स.)।संघ लोक सेवा आयोगेन यूपीएससी इत्यनेन सिविल सेवा परीक्षा 2025 इत्यस्य अन्तिमपरिणामे रैंक 301 विषये उत्पन्ने विवादे सोमवासरे स्पष्टीकरणं प्रदत्तम्। आयोगेन उक्तं यत् अस्यां रैंक 301 स्थाने चयनिता अभ्यर्थिनी उत्तरप्रदेशस
यूपीएससी में 301 रैंक प्राप्त करने वाली उप्र के गाजीपुर की आकांक्षा सिंह (फाइल फोटो)


नव दिल्ली, 09 मार्चमासः (हि.स.)।संघ लोक सेवा आयोगेन यूपीएससी इत्यनेन सिविल सेवा परीक्षा 2025 इत्यस्य अन्तिमपरिणामे रैंक 301 विषये उत्पन्ने विवादे सोमवासरे स्पष्टीकरणं प्रदत्तम्। आयोगेन उक्तं यत् अस्यां रैंक 301 स्थाने चयनिता अभ्यर्थिनी उत्तरप्रदेशस्य गाजीपुर जिलायाः आकांक्षा सिंह इति।

आयोगेन सूचितम् यत् विविधमाध्यमप्रतिवेदनेषु एषः दावा क्रियते स्म यत् समाननाम्नी द्वे अभ्यर्थिन्यौ आकांक्षा सिंह इति सिविल सेवा परीक्षा 2025 अन्तिमपरिणामे समानां रैंक 301 प्राप्तवन्त्यौ इति वदन्ति।

यूपीएससी आयोगेन प्रदत्तस्य स्पष्टीकरणस्य अनुसारम् आयोगस्य अभिलेखेषु रैंक 301 प्राप्तायाः सफलाभ्यर्थिन्याः विवरणम् एवं अस्ति आकांक्षा सिंह रोल नम्बर 0856794 पिता रंजीत सिंह माता नीलम सिंह च। तस्याः निवासस्थानम् उत्तरप्रदेशस्य गाजीपुर जिलायाः अभयपुर ग्रामे अस्ति।

उल्लेखनीयम् यत् विवादः तदा आरब्धः यदा बिहारनिवासिनी अन्यापि आकांक्षा सिंह नाम्नी अभ्यर्थिनी अपि परीक्षायां 301 क्रमाङ्कं प्राप्तवती इति दावा अकरोत्। तेन भ्रमस्य स्थितिः उत्पन्ना।

अस्मिन् मध्ये परिणामस्य घोषणानन्तरम् गाजीपुरनिवासिनी आकांक्षा सिंह अपि 301श्रेणीं प्राप्तवती इति सूचनां दत्तवती आसीत्। आयोगस्य स्पष्टीकरणानन्तरम् अधुना एतत् स्पष्टम् अभवत् यत् रैंक 301 स्थाने चयनिता अभ्यर्थिनी उत्तरप्रदेशस्य एव अस्ति।

यूपीएससी आयोगेन 6 मार्च दिनाङ्के सिविल सेवा परीक्षा 2025 इत्यस्य अन्तिमपरिणामः घोषितः आसीत्।

-------------

हिन्दुस्थान समाचार