Enter your Email Address to subscribe to our newsletters

गुवाहाटीनगरम्, १० अप्रैलमासः (हि.स.)। असम-राज्यस्य मुख्यमन्त्री डॉ.हिमन्त-बिस्व-सरमा विश्वासं व्यक्तवान् यत् राज्ये सम्पन्ने विधानसभा-निर्वाचने भाजप-नीत-गठबन्धनं नवत्यधिक-स्थानानि प्राप्स्यति। तेन उक्तं यत् अस्मिन् वर्षे राज्ये सर्वत्र मतदातारः अभूतपूर्व-उत्साहेन मतदानं कृतवन्तः।
भाजप-मुख्यालये गत-रात्रौ माध्यमैः सह वार्तालापस्य समये मुख्यमन्त्री उक्तवान् यत् हिन्दू-बहुल-क्षेत्रैः सह अल्पसंख्यक-बहुल-प्रदेशेष्वपि जनाः बहुसंख्यया मतदानं कृतवन्तः। तेन उक्तं यत् अस्मिन् समये असमिया-परिचयस्य रक्षणस्य विषये जनैः निर्णायकं मतदानं कृतम्।
मुख्यमन्त्री काङ्ग्रेस-पक्षं प्रति तीक्ष्णं आक्रमणं कुर्वन् उक्तवान् यत् गौरव-गोगोई अस्मिन् निर्वाचने दृढां स्पर्धां सम्मुखीकरिष्यति। तेन गोगोई-इत्यस्य राजनैतिक-प्रतिबद्धतां प्रति प्रश्नाः उत्थापिताः तथा तस्य निजी-सार्वजनिक-पक्षयोः विषयेऽपि आलोचना कृता।
तेन काङ्ग्रेस-नेतारं पवन-खेड़ां प्रति अपि लक्ष्यं कृत्वा उक्तं यत् गुवाहाट्यां उपस्थितेः वार्तां कृत्वापि सः प्रातः शीघ्रमेव राज्यं त्यक्तवान्। सरमया काङ्ग्रेसः “भीरुणां दलम्” इति उक्त्वा तेषां व्यवहारस्य दुर्बलता प्रकटते इति उक्तम्।
स्वस्य निर्वाचन-अभियानस्य उल्लेखं कुर्वन् मुख्यमन्त्री उक्तवान् यत् तेन ३०० अधिक-जनसभाः सम्बोधिताः। सह तेन काङ्ग्रेस-नेतारौ देवब्रत-सैकिया तथा रिपुन-बोरा इत्येतौ प्रति प्रश्नः कृतः यत् तौ स्व-निर्वाचन-क्षेत्राभ्यां बहिः व्यापक-प्रचारार्थं किमर्थं न निर्गतवन्तौ।
हिन्दुस्थान समाचार / अंशु गुप्ता