Enter your Email Address to subscribe to our newsletters

कोलकातानगरम्, १० अप्रैलमासः (हि.स.)।ममता-बनर्जी शुक्रवासरे एक्स इत्यस्मिन् पश्चिम-बङ्गालस्य पूर्व-मुख्यमन्त्री प्रफुल्ल-चन्द्र-सेनस्य जयन्त्यां तस्मै श्रद्धाञ्जलिं अर्पितवती।
ममता-बनर्जी स्वस्य लेखे लिखितवती— “बङ्गालस्य पूर्व-मुख्यमन्त्री प्रफुल्ल-चन्द्र-सेनस्य जयन्त्यां तस्मै मम पक्षतः हार्दिकी श्रद्धा नमनं च।”
मुख्यमन्त्री स्वसन्देशस्य माध्यमेन राज्यस्य पूर्व-नेतारं प्रति सम्मानं व्यक्तवती तस्य योगदानं च स्मृतवती।
उल्लेखनीयम् अस्ति यत् काङ्ग्रेस-दलस्य नेता आसीत् प्रफुल्ल-चन्द्र-सेन स्वतन्त्रता-आन्दोलनेऽपि सक्रियां भूमिकां निर्वूढवान्। १९६२ तमे वर्षे सः पश्चिम-बङ्गालस्य तृतीय-मुख्यमन्त्रीरूपेण शपथं गृहीतवान् तथा १९६७ पर्यन्तं स्वपदे स्थितवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता