चारधाम-यात्रायाः पूर्वं पूर्वाभ्यासः, आपदा-नियन्त्रण-सज्जानां सप्त-जनपदेषु परीक्षणम्
देहरादूननगरम्, १० अप्रैलमासः (हि.स.)। चारधामयात्रा आरम्भात् पूर्वं राज्ये आपदा-प्रबन्धन-सज्जानां परीक्षणार्थं पूर्वाभ्यासः आयोजितः अस्ति। गृह-मन्त्रालयस्य निर्देशानुसारं राष्ट्रीय-आपदा-प्रबंधन-प्राधिकरण-तथा-उत्तराखण्ड-राज्य-आपदा-प्रबंधन-प्राधिकरणम्
आपदा पूर्व देहरादून में मॉक अभ्यास करती टीम।


देहरादूननगरम्, १० अप्रैलमासः (हि.स.)। चारधामयात्रा आरम्भात् पूर्वं राज्ये आपदा-प्रबन्धन-सज्जानां परीक्षणार्थं पूर्वाभ्यासः आयोजितः अस्ति। गृह-मन्त्रालयस्य निर्देशानुसारं राष्ट्रीय-आपदा-प्रबंधन-प्राधिकरण-तथा-उत्तराखण्ड-राज्य-आपदा-प्रबंधन-प्राधिकरणम् इत्येतयोः समन्वयेन राज्यस्य सप्त-जनपदेषु अभ्यासः क्रियते।

एषः अभ्यासः उत्तरकाशी-चमोली-रुद्रप्रयाग-हरिद्वार-टिहरी-पौड़ी-तथा-देहरादून-इत्येतेषु जनपदेषु आयोजितः अस्ति।

अभ्यासस्य संचालनं राज्य-आपातकालीन-परिचालन-केंद्रात् क्रियते, यस्मिन् विभिन्न-विभागीय-दलानि सक्रियतया भागं वहन्ति। आपदा-प्रबन्धन-सचिवः विनोद-कुमार-सुमनः उक्तवान् यत् एषः अभ्यासः चारधाम-यात्रां सुरक्षितां व्यवस्थितां च कर्तुं अत्यन्तं महत्त्वपूर्णः अस्ति।

मेजरजनरल-सुधीरबहलस्य निर्देशनाधीने एषः पूर्वाभ्यासः घटना-प्रतिक्रिया-प्रणाल्या सञ्चालिता अस्ति, यस्यां विभिन्न-शाखानां दायित्वानां व्यावहारिकं परीक्षणं क्रियते।

अभ्यासे एनडीआरएफ-एसडीआरएफ-चिकित्सादलानि, अग्निशमन-दलानि, संचार-दलानि, योजना-एवं-प्रमाणपत्रकरण-विभागः तथा स्वयंसेवक-दलानि सक्रियाणि सन्ति।

अधिकारिणामनुसारम् एषः अभ्यासः यात्राकाले सम्भाव्य-भूकम्पः, जलवृद्धिः, भूस्खलनं, हिमस्खलनं, हेलीकॉप्टर-दुर्घटना, अग्निकाण्डादि-आपदासु त्वरित-प्रतिक्रिया-क्षमतां सुदृढीकरिष्यति तथा यात्रिक-सुरक्षां अधिकं सुनिश्चितां करिष्यति।

हिन्दुस्थान समाचार / Dheeraj Maithani