सहारनपुरे मार्गतटे शयानेषु पञ्चसु श्रमिकेषु प्रपतितं शिलाखंडपूरितं ट्रकयानं, त्रयो मृताः, मुख्यमंत्री प्रकटितवान् शाेकम्
सहारनपुरम्, 10 अप्रैलमासः (हि.स.)। सहारनपुर-झबरेहड़ा मार्गस्य समीपे थाना नागल क्षेत्रे मार्गकाठे टीनशेडे सुप्तेषु पञ्चसु श्रमिकेषु उपरि बजरीभारितः ट्रकः पलटितः। अस्मिन् दुर्घटनायां त्रयः श्रमिकाः मृताः अभवन्, अन्ये च जनाः चिकित्सालये भर्ती कृताः
फोटो


सहारनपुरम्, 10 अप्रैलमासः (हि.स.)।

सहारनपुर-झबरेहड़ा मार्गस्य समीपे थाना नागल क्षेत्रे मार्गकाठे टीनशेडे सुप्तेषु पञ्चसु श्रमिकेषु उपरि बजरीभारितः ट्रकः पलटितः। अस्मिन् दुर्घटनायां त्रयः श्रमिकाः मृताः अभवन्, अन्ये च जनाः चिकित्सालये भर्ती कृताः सन्ति। एते श्रमिकाः तत्रैव निर्मीयमाणस्य सेतुनिर्माणकार्ये नियुक्ताः आसन्।

अस्य दुःखदस्य घटनायाः विषये मुख्यमंत्री योगी आदित्यनाथः शोकसंवेदनां व्यक्तवान् तथा में घायलेषु सम्यक् उपचारार्थं अधिकारिणः निर्देशितवान्।

गुरुवासरे रात्रौ निर्माणाधीनस्य सेतोः समीपे मार्गकाठे टीनशेडं स्थाप्य श्रमिकाः सुप्ताः आसन्। रात्रौ प्रायः द्वयोः त्रयाणां वा वादनयोः मध्ये खेड़ा मुगल ग्रामं प्रति गच्छन् बजरीपूर्णः ट्रकः असंतुलितः भूत्वा सुप्तानां श्रमिकाणाम् उपरि पलटितः।

दुर्घटनायाः तीव्रध्वनिं श्रुत्वा समीपस्थिताः अन्ये श्रमिकाः स्थलम् आगतवन्तः। ते बजरीअधः निपीडितानां श्रमिकाणां शब्दान् श्रुत्वा त्वरितं पुलिसाय सूचनां दत्त्वा उद्धारप्रयत्नं आरब्धवन्तः।

सूचना प्राप्तमात्रेण पुलिसदलम् प्रशासनदलम् च स्थलम् आगत्य उद्धारकार्यं आरब्धवन्तौ। प्रायः द्विघण्टापर्यन्तं कठिनप्रयत्नेन सर्वे पञ्च श्रमिकाः बजरीतः निष्कास्य चिकित्सालयं नीताः।

वैद्यैः त्रयः श्रमिकाः मृताः घोषिताः, अन्यौ द्वौ घायले उपचारार्थं भर्ती कृतौ। एते सर्वे श्रमिकाः सहारनपुर-झबरेहड़ा मार्गे सेतुनिर्माणकार्ये नियुक्ताः आसन्।

पुलिसस्य अनुसारं मृतानां नामानि असगर, इस्तकार, शौकीन इति सन्ति तथा घायलयोः नामानि गुलफाम, कर्मवीर इति। एते सर्वे मिर्जापुर थाना क्षेत्रस्य महमूदपुर ग्रामनिवासिनः सन्ति।

हिन्दुस्थान समाचार