मुख्यमंत्रिणा योगिना नेशनल इंटरवेंशनल काउंसिल 2026 इत्यस्य कृतम् उद्घाटनम्
लखनऊ, 10 अप्रैलमासः (हि.स.)। उत्तर प्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे कार्डियोलॉजी सोसायटी ऑफ इंडियाद्वारा लखनऊ-नगरे अटलविहारीवाजपेयीचिकित्साविश्वविद्यालये आयोजितस्य नेशनल इंटरवेंशनल काउंसिल 2026 कार्यक्रमस्य उद्घाटनम् अकरोत्। अस्मिन
मुख्यमंत्री योगी


लखनऊ, 10 अप्रैलमासः (हि.स.)। उत्तर प्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे कार्डियोलॉजी सोसायटी ऑफ इंडियाद्वारा लखनऊ-नगरे अटलविहारीवाजपेयीचिकित्साविश्वविद्यालये आयोजितस्य नेशनल इंटरवेंशनल काउंसिल 2026 कार्यक्रमस्य उद्घाटनम् अकरोत्। अस्मिन् कार्यक्रमे भारतदेशात् अपि च अन्यदेशेभ्यः बहवः विशेषज्ञ-चिकित्सकाः सहभागी अभवन्।

अस्मिन् अवसरे मुख्यमन्त्री योगी उक्तवान् यत् — “रुग्णः भारतः न सशक्तः भवितुं शक्नोति, न समृद्धः, न च आत्मनिर्भरः। स्वास्थ्यरक्षणाय उपचारात् पूर्वं जनानां स्वदिनचर्यायाः परिवर्तनम् आवश्यकम् अस्ति। अस्मिन् कार्ये चिकित्सकानां अग्रणी भूमिका अपेक्षिता अस्ति।”

कार्यक्रमं संबोधयन् सः अवदत् यत् संस्था दीर्घकालपर्यन्तं यात्रां कृत्वा अधुना लखनऊ-नगरे एतत् सेमिनारं आयोजयति। एतत् परिवर्तमानस्य भारतस्य मध्ये उत्तरप्रदेशस्य नूतनं स्वरूपम् अस्ति। अद्य भारतः नूतनया प्रतिस्पर्धया सह विश्वे प्रतिष्ठितः अस्ति। 2017 वर्षात् पूर्वं उत्तरप्रदेशः ‘बीमारू राज्य’ इति रूपेण स्थितः आसीत्, किन्तु अधुना सः भारतस्य अग्रणी भूमिकायां स्थितः अस्ति।

सः अपि उक्तवान् यत् एषा स्थिति चिन्ताजनका अस्ति, यतः भारते प्राचीनकालात् एव नियमित-जीवनशैली—समये निद्रा, समये जागरणम्, संतुलितं पौष्टिकं च आहारग्रहणम्—जीवनस्य अङ्गम् आसीत्। किन्तु जीवनशैली-परिवर्तनस्य परिणामाः अद्य स्पष्टतया दृश्यन्ते। अद्य अस्माभिः द्वौ पक्षौ दृष्टव्यौ—रोगनिवारणं तथा उपचारः। मम मते निवारणं अधिकं महत्वपूर्णम् अस्ति, अतः जनजागरणम् अत्यावश्यकम्।

मुख्यमन्त्री उक्तवान् यत् सरकारेण अपि अस्मिन् क्षेत्रे बहवः ठोस-प्रयासाः कृताः। पूर्वं रोगे सति परिवारस्य मुख्यचिन्ता वित्तसम्बन्धिनी आसीत्। अधुना भारते 60 कोट्यधिकाः जनाः स्वास्थ्य-योजनाभिः संयोजिताः सन्ति तथा निःशुल्क-चिकित्सा प्राप्नुवन्ति। उत्तरप्रदेशे आयुष्मान-योजना तथा मुख्यमन्त्री-जन-आरोग्य-योजना द्वारा बहवः लाभान्विताः सन्ति। राज्यकर्मचारिणः सह आङ्गनवाडी-कार्यकर्त्र्यः, रसोइयाः, शिक्षामित्राः, अनुदेशकाः च निःशुल्क-चिकित्सायाः सुविधा प्राप्नुवन्ति। अधुना राज्ये 81 चिकित्सालय-महाविद्यालयाः तथा द्वौ AIIMS सफलतया संचलिताः सन्ति।

सः अपि अवदत् यत् चिकित्सा-सुविधावृद्ध्या सह उपकरणानि सुलभानि कर्तुं, औषध-उद्योगस्य विकासाय ‘फार्मा-पार्क’ स्थाप्यन्ते। एते प्रयासाः उपचारं सुलभं करिष्यन्ति। तथापि यदि वयं स्वजीवनशैलीं न परिवर्तयामः, तर्हि उत्तमजीवनं न प्राप्स्यामः।

अद्य चिकित्सालयेषु रोगिणां भीड् दृश्यते। चिकित्सकः किम् प्रत्येकं रोगिणं पर्याप्तकालं दातुं शक्नोति? जनाः प्रतिदिनं 4-6 घण्टाः स्मार्टफोनस्य उपयोगं कुर्वन्ति। अतः सर्वैः स्वदिनचर्यायां परिवर्तनम् अनिवार्यम्। चिकित्सकानां वचनं जनाः अधिकं विश्वसन्ति, अतः ते जागरूकतां प्रसारयन्तु।

मुख्यमन्त्री उक्तवान् यत् अद्य मिलावट-समस्या अत्यन्तं वर्धिता अस्ति। कस्यचित् जिलायां डेयरी-उत्पादेषु अनियमितता दृष्टा—हजारशः कुंतल-परिमाणेन खोया-पनीरादयः जप्ताः। अतः जनैः यत् खाद्यं गृह्यते तस्य विषये सावधानता आवश्यकाऽस्ति।

प्रधानमन्त्री नरेन्द्र मोदी औषधोपचारस्य सह योगस्य अपि प्रसारं कृतवान्, यं विश्वं स्वीकुर्वति। सः अवदत् यत् ईश्वरकृपया निर्धनाः जनाः अल्पं हृदयरोगेण पीड्यन्ते, यतः ते कठोरं श्रमं कुर्वन्ति।

अन्ते सः पुनः उक्तवान्—“रुग्णः भारतः न सशक्तः, न समृद्धः, न आत्मनिर्भरः भवितुं शक्नोति।” सः चिकित्सकान् आह्वयत् यत् ते निवारणं तथा उपचारं उभयपक्षौ सम्यक् विचारयन्तु। स्वस्थः समाजः एव सशक्तस्य समृद्धस्य च राष्ट्रस्य आधारः अस्ति।

हिन्दुस्थान समाचार