धर्मसंघे वेद विद्यालयस्य वेदपाठी बटुकेभ्यो लप्स्यते गायन संगीतस्य प्रशिक्षणम्
वाराणसी, 10 अप्रैलमासः(हि. स.)। वाराणस्यां दुर्गाकुण्डस्थिते श्रीधर्मसंघशिक्षामण्डले महामन्त्री जगजीतन पाण्डेयः अवदत् यत् धर्मसंघे सञ्चालितस्य वेदविद्यालयस्य प्रायः १५० वेदपाठी बटुकानां कृते २० अप्रैलदिनाङ्कात् अक्षयतृतीयादिने आरभ्य शास्त्रीयसंगीत
जगजीतन पांडेय (फाइल फोटो)


वाराणसी, 10 अप्रैलमासः(हि. स.)।

वाराणस्यां दुर्गाकुण्डस्थिते श्रीधर्मसंघशिक्षामण्डले महामन्त्री जगजीतन पाण्डेयः अवदत् यत् धर्मसंघे सञ्चालितस्य वेदविद्यालयस्य प्रायः १५० वेदपाठी बटुकानां कृते २० अप्रैलदिनाङ्कात् अक्षयतृतीयादिने आरभ्य शास्त्रीयसंगीतस्य प्रशिक्षणं प्रदास्यते।

एतत् प्रशिक्षणं शिवनाथमिश्रसंगीत-अकादम्याः कुशलैः प्रशिक्षकैः प्रदीयते। अस्मिन् बटुकानां कृते तबला, हारमोनियम, सितार, बांसुरी, गायनम् इत्यादीनां मुख्यरूपेण शिक्षणं भविष्यति।

महामन्त्री जगजीवन पाण्डेयः अपि उक्तवान् यत् शिवनाथमिश्रसंगीत-अकादम्याः निर्देशनं प्रख्यातेन सितारवादकेन देवव्रत मिश्रः करोति। देवव्रत मिश्रस्य सान्निध्ये शिक्षमाणाः वेदपाठी बटुकाः नूनं संगीत-गायनक्षेत्रे उत्तमं प्रदर्शनं करिष्यन्ति।

वेदपाठी बटुकानां कृते संगीत-अध्ययनस्य एषः अनुभवः भविष्यस्य नूतनान् अवसरान् अन्वेष्टुं सहायकरः भविष्यति।

---------------

हिन्दुस्थान समाचार