नियोजने सहायक पुलिस आयुक्तस्य अनिर्बाण चक्रवर्तिनः हृदयाघातेन निधनम्
कोलकाता, 10 अप्रैलमासः (हि.स.)। संस्कृत अनुवादः — पश्चिमबङ्गपुलिसस्य सहायकायुक्तः (एसीपी) अनिर्बाण चक्रवर्ती (वयः ५७) हृदयाघातेन निधनं प्राप्तवान्। सः दिल्लीनगरे कर्तव्यपालनकाले आकस्मिकतया हृदयाघातस्य शिकारः अभवत्। उपलब्धसूचनानुसारं गुरुवासरे रात
अनिर्वान चक्रवर्ती


कोलकाता, 10 अप्रैलमासः (हि.स.)। संस्कृत अनुवादः —

पश्चिमबङ्गपुलिसस्य सहायकायुक्तः (एसीपी) अनिर्बाण चक्रवर्ती (वयः ५७) हृदयाघातेन निधनं प्राप्तवान्। सः दिल्लीनगरे कर्तव्यपालनकाले आकस्मिकतया हृदयाघातस्य शिकारः अभवत्।

उपलब्धसूचनानुसारं गुरुवासरे रात्रौ तं गम्भीरावस्थायां डॉ. राम मनोहर लोहिया अस्पताल चिकित्सालये प्रविष्टं कृतवन्तः, यत्र उपचारकाले तस्य तस्यैव रात्रौ निधनम् अभवत्।

अनिर्बाणचक्रवर्ती पुलिसविभागे अतीव सम्मानितः अधिकारी आसीत्। सः १९९३ वर्षस्य उपनिरीक्षकपदे सेवायां प्रविष्टः आसीत्, अधुना तु बैरकपुर-तृतीय-बटालियने सहायकायुक्तपदे कार्यरतः आसीत्।

सः स्वामी विवेकानंद राज्य पुलिस अकादमी इत्यत्र अपि बहुवर्षपर्यन्तं विधिशास्त्रस्य प्रशिक्षकः आसीत्। पुलिसविभागस्य अनेकाः अधिकारीणः विविधेषु वैधानिकविषयेषु तस्मात् परामर्शं गृह्णन्ति स्म।

सूत्राणां अनुसारं सः किञ्चित्कालात् अस्वस्थः आसीत् तथा च हृदयसम्बद्धचिकित्सार्थं पञ्चदशदिनानां अवकाशम् अपि याचितवान्। तथापि तं विशेषकर्तव्याय दिल्लीनगरं प्रेषितवन्तः, यत्र सः बंगभवने नियुक्तः आसीत्।

तस्य निधनात् पुलिसविभागे शोकलहरी उत्पन्ना, सहकर्मिणः च एतत् महती क्षतिः इति उक्तवन्तः।-----------------

हिन्दुस्थान समाचार