द्विदिवसीया “अरपा-बचाओ” अभियान-यात्रा अद्य आरभ्यते
बिलासपुरम्, ११ अप्रैलमासः (हि.स.)। बिलासा-कला-मञ्चेन गत-विंशतिवर्षेभ्यः ‘अरपा-बचाओ-अभियान’ इत्यस्य माध्यमेन जल-संरक्षणस्य अत्यन्तं महत्त्वपूर्णं कार्यं क्रियते। छत्तीसगढ-राज्यस्य बिलासपुर-जनदपस्य अमरपुर-पेण्ड्रा (उद्गम-स्थलम्) इत्यस्मात् आरभ्य शिवन
द्विदिवसीया “अरपा-बचाओ” अभियान-यात्रा अद्य आरभ्यते


बिलासपुरम्, ११ अप्रैलमासः (हि.स.)। बिलासा-कला-मञ्चेन गत-विंशतिवर्षेभ्यः ‘अरपा-बचाओ-अभियान’ इत्यस्य माध्यमेन जल-संरक्षणस्य अत्यन्तं महत्त्वपूर्णं कार्यं क्रियते। छत्तीसगढ-राज्यस्य बिलासपुर-जनदपस्य अमरपुर-पेण्ड्रा (उद्गम-स्थलम्) इत्यस्मात् आरभ्य शिवनाथ-नदी (सङ्गम-स्थलम्) मंगला-पासीद पर्यन्तम् एषा यात्रा अरपा-नद्याः तथा तस्याः चत्वारिंशत् सहायक-नदीनां अस्तित्वं रक्षितुं महत्त्वपूर्णः पदक्षेपः अस्ति।

अद्य शनिवासरे राघवेन्द्र-राव-सभा-भवनात् अरपा-बचाओ-अभियान-यात्रा-दलम् प्रस्थितं भविष्यति। यात्रा-दलं मंगला, घुटकु इत्येतयोः मार्गेण गत्वा अरपा-भैंसाझार-जलाशयात् चांपी-जलाशयं प्रति गच्छन्ती अन्ते अरपा-उद्गम-स्थले अमरपुर-पेण्ड्रा इत्यत्र समाप्स्यते।

१२ अप्रैलमासे पेण्ड्रात् खोडरी, खोंगसरा, कोनचरा इत्येतानि स्थानानि अतिक्रम्य बेलगहनां प्रति गमिष्यति, ततः रतनपुरं प्रति यात्रा-दलं प्राप्स्यति। तत्र नगरस्य प्रबुद्ध-जनैः सह तडागानां संरक्षण-विषये चर्चा, स्वच्छता-कार्यं च कृत्वा सेंदरी, कोनी इत्येतयोः मार्गेण सायंकाले बिलासपुरे समापनं भविष्यति। एषा यात्रा समाजं नदीनां जल-स्रोतः च प्रति स्व-कर्तव्यं स्मारयन्ती, समस्याः अवबोध्य अग्रे गच्छति। अस्मिन् अभियाने अरपा-बचाओ-यात्रा-दलस्य संयोजकः डॉ.सोमनाथ-यादवः सह डॉ.सुधाकर-बिबे, राजेन्द्र-मौर्यः, देवानन्द-दुबे, रामेश्वर-गुप्तः, एम.डी.मानिकपुरी, अश्विनी-पाण्डेयः तथा अनूप-श्रीवासः सम्मिलिताः सन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता